सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 588, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 588

खं. ५ अ. २७ पान ५९
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । दूर्वायाश्चरितं हर्षकारकं ब्रूहि मुद्गल । अहो शम्यास मं नास्ति मंदारेण पवित्रकम् ॥१॥
मुद्गल उवाच । पुराऽऽदौ देवदेवेशो ब्रह्मा सृष्ट्वा चराचरम् । तेषामन्नार्थमत्यंतचिंतायुक्तो बभूव ह ॥२॥ ध्यात्वा गजाननं देवं
संस्थितः प्रपितामहः । तस्य रोमभ्य एका वै देवी संनिःसृता बभौ ॥३॥ सर्वतः पाणिपादं तां सहस्रवदनां पराम् ।
सहस्रावयवैः सर्वैः शोभमानां ददर्श सः ॥४॥ ततोऽतिहर्षितो ब्रह्मा बभूवे सर्वधारकः । ज्ञात्वा तामन्नरूपां वै
सर्वपोषणकारिणीम् ॥५॥ धातारं तं प्रणम्याऽसौ संस्थिता करसंपुटा । आज्ञां कुरु जगद्धातः किं करोमि पितामह ॥६॥
ब्रह्मोवाच । सर्वेषामन्नभूता त्वं दूर्वानाम्नी भविष्यसि । तपस्व च ततः सर्वमन्नं सृज विधानतः ॥७॥ तथेति तं प्रणम्यैव
तताप तप उत्तमम् । गणेशं मनसि ध्यात्वा निराहारसमन्विता ॥८॥ एकाक्षरस्य मंत्रस्य जपेन द्विरदाननः । दिव्यवर्ष-
सहस्रेण ययौ तां वरदायकः ॥९॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज सा । अथर्वशिरसा देवं तुष्टाव करसंपुटा ॥१०॥
तामुवाच गणेशानः सृष्टिं नानाविधां सदा । करिष्यसि महाभागे सर्ववंद्या भविष्यसि ॥११॥ एवमुक्त्वा गणाधीशों-
ऽतर्धानं प्रजगाम ह । साऽपि हर्षसमायुक्ता सृष्टिं कर्तुं मनो दधे ॥१२॥ तस्या मस्तकभागाद् वै स्वर्गान्नं विविधं महत् ।
निःसृतं तेन स्वर्गस्था भुंजते विविधान् रसान् ॥१३॥ उदराद् भूमिसंस्थानां निःसृतं विविधं विधे । अन्नं तेनैव भूमिस्था
भुंजते विविधान् रसान् ॥१४॥ पातालवासिनां पद्भ्यामन्नं नानाविधं परम् । भुंजते षड्रसान्नित्यं निःसृतं तेन तद्गताः ॥१५॥
अंगप्रत्यंगरूरपेभ्यो नानान्नं ससृजे प्रभो । देवी तेन तु संतुष्टा बभूवुः सर्वजंतवः ॥१६॥ हृष्टपुष्टजनान् वीक्ष्य ब्रह्मा
संतोषमादधे । तामागत्य द्विजैर्मंत्रैरभिषेकं चकार ह ॥१७॥ अन्नानामाधिपत्ये चाभिषिक्ता ब्रह्मणा पुरा । शुशुभे
सर्वमान्या सा देवी दूर्वा विशेषतः ॥१८॥ राज्यश्रीसंयुता देवी मद्युक्ता बभूव ह । विसस्मार जपं मंत्रं गणेशस्य
प्रजापते ॥१९॥ ततो वित्ताकुला जाता स्पर्धां चक्रे विशेषतः । पार्वत्या नित्यमानंदादन्नपूर्णांहेमादरात् ॥२०॥ जगदंबा च
सर्वेषामन्नपूर्णत्वकारणात् । साऽहमन्नस्वरूपस्था वृथैयं गर्वमादधे ॥२१॥ तस्याश्चेष्टितमाज्ञाय क्रोधयुक्ता जगन्मयी ।
दौरात्म्यसहनं कृत्वा ह्यतिष्ठच्छिवसंनिधौ ॥२२॥ एकदा चंद्रगेहे वै बभूव ह महोत्सवः । तत्र देवादिकाः सर्वे सस्त्रीकाश्च
समाययुः ॥२३॥ तत्र दूर्वा मदोत्सिक्ता निनिंद जगदंबिकाम् । वृथैयं जगदंबा वै नाम्ना ख्याता बभूव ह ॥२४॥
इत्यादि विविधैर्वाक्यैर्निनिंद जगदंबिकाम् । ततः क्रोधसमायुक्ता पार्वती तां शशाप ह ॥२५॥ पार्वत्युवाच । मदीयरमकूपस्था