मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 557, कुल 1023 में से
संदर्भ में पढ़ेंआनंदानंदकंदाय समहीनाय ते नमः ॥५१॥ सहजाय विहीनाय सहजैः सहजात्मने । सहजानां तु योगाय निर्मोहाय
नमो नमः ॥५२॥ स्वानंदाय सदा स्वानंदानां स्वानंदमूर्तये । मायायुक्ताय देवेश सर्वाधीशाय ते नमः ॥५३॥ अयोगाय
सदा ब्रह्मनिवृत्तिं धारिणे नमः । असंप्रज्ञातभावाय लंबोदर नमो नमः ॥५४॥ शांतिरूपाय योगाय योगेभ्यो योगदाय ते ।
चित्तभूमिविहीनाय नमश्चितामणे नमः ॥५५॥ क्षमापराधकं नाथ विस्मृत्या भ्रमसंयुता । अप्रपूज्य गणाधीश गता
योद्धुं परात्परम् ॥५६॥ अधुना मे वरं देहि त्वत्पादरसदायकम् । महाभक्तिप्रदं नाथ येनाऽहं तोषिता त्वया ॥५७॥ जयं
देहि गणाधीश महिषस्य वधाय वै । रतायै देवदेवेश नमस्ते परमेश्वर ॥५८॥ एवं तस्याः संस्तुवत्या भक्त्या रससमुद्भवः ।
तेन युक्ता ननर्त्तैव साश्रुनेत्रा प्रजापते ॥५९॥ लंबोदरस्तादृशीं स निरीक्ष्यैव जगाद ताम् । त्वया यद्याचितं देवि तत् सर्वं
सफलं भवेत् ॥६०॥ त्वया कृतमिदं स्तोत्रं भवेद् भक्तिरसप्रदम् । अपराधस्य देवेशि सहने कारणं मयि ॥६१॥ भुक्तिं
मुक्तिं प्रदास्यामि स्तोत्रेणाऽहं हि संस्तुतः । यं यं चिंतयसे कामं तं तं दास्यामि निश्चितम् ॥६२॥ एवमुक्त्वाऽन्तर्दधेऽसौ
गणेशो ब्रह्मनायकः । शक्तिः खिन्नैव तत्रैव संस्थिता ध्यानसंयुता ॥६३॥ स्थापयामास मूर्तिं सा ब्राह्मणैर्वेदपारगैः ।
पूजयामास तां तत्र ततो योद्धुं समागता ॥६४॥ तदादि गणराजस्य स्थानं तत् पप्रथे भुवि । सर्वसिद्धिकरं पूर्णं
यात्राकारि जनस्य च ॥६५॥ ब्रह्मभूयप्रदं पूर्णं तत्रैव मरणे सति । विघ्नेश्वरस्य दक्षैतद् बभूवे सर्वदा प्रियम् ॥६६॥
महिषासुरकं देवी जघान वरदानतः । युद्धं कृत्वा महाघोरं जगद्रक्षणलालसा ॥६७॥ पुनः समागता देवी विघ्नेशक्षेत्रके
प्रभो । तत्र नित्यं महाभक्त्या भजते गणनायकम् ॥६८॥ इदं लंबोदरस्यैव चरित्रं सर्वदं परम् । यः शृणोति नरो भक्त्या
पठेद्वा तस्य संभवेत् ॥६९॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः ॥