मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 546, कुल 1023 में से
संदर्भ में पढ़ें[Header]
खं. ५ अ. ९ | पान १७
हि तोषितः ॥४४॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥४५॥
शृणुयात्तस्य तद्वच्च भविष्यति न संशयः । यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥४६॥ क्रोधासुर उवाच । यदि लंबोदर
त्वं मे प्रसन्नो वरदोऽसि भोः । तदा त्वत्पादपद्मे च भक्तिं देहि दृढां प्रभो ॥४७॥ आज्ञां कुरु महाभाग सेवार्थं तां
करोम्यहम् । स्थानं वृत्तिं च मे देहि देहपोषणकारिणीम् ॥४८॥ ब्रह्मोवाच । क्रोधासुरस्य वाक्यं तच्छ्रुत्वा हर्षसमन्वितः ।
लंबोदरस्तं जगाद स पुनर्दैत्यनायकम् ॥४९॥ लंबोदर उवाच । मदीया सुदृढा भक्तिः प्रभविष्यति तेऽनघ । वस त्वं भयहीनश्च
स्थाने ते नात्र संशयः ॥५०॥ यत्रारंभे महादैत्य मदीयं स्मरणं न हि । तत्र त्वं दैत्यभावेन कुरु राज्यं महामते ॥५१॥
तदीयपुण्यजं सर्वं भुंक्ष्व नित्यं सुकर्मजम् । ज्ञानादिसकलं तद्वत् त्वदीयं नात्र संशयः ॥५२॥ मद्भक्ता ये महादैत्य तान्
रक्षस्व यथासुखम् । गाणपत्यप्रियस्त्वं वै भविष्यसि न संशयः ॥५३॥ एवमुक्तो महादैत्यः क्रोधः परमहर्षितः । लंबोदरं
प्रणम्यैव ययौ स्वस्थानमुत्तमम् ॥५४॥ दैत्या राहुमुखाः सर्वे तं त्यक्त्वा भयसंयुताः । पातालं विविशुर्विप्रौ शुक्रः
संहर्षितोऽभवत् ॥५५॥ एवं क्रोधासुरं शांतं चकार गणनायकः । क्रोधो गणेशभक्तिं वै कुर्वन् सन् संस्थितोऽभवत् ॥५६॥
॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरशांतिवर्णनं नामाऽष्टमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं क्रोधासुरं शांतं दृष्ट्वा देवर्षयोऽमलाः । हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥१॥
पूजयित्वा विधानेन नेमुलँबोदरं पुनः । ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकंधराः ॥२॥ देवर्षय ऊचुः । श्रेष्ठं प्रधानं सकलादिभूतं
सर्वांतगं पूर्णमनंतभावम् । नित्यं निजात्मानमचिंत्यसंस्थं लंबोदरं तं च वयं नताः स्मः ॥३॥ बोधेन हीनं स्वसुखे निमग्नं
बीजात्मकं सांख्यमनंतवेद्यम् । वैदेहयोगेन च लभ्यमेवं लंबोदरं तं च वयं नताः स्मः ॥४॥ जीवं परानंदमयं परेशं
बोधस्वरूपं प्रकृतेर्लयस्थम् । देहैर्विहीनं च तदात्महीनं लंबोदरं तं च वयं नताः स्मः ॥५॥ सोऽहं सदाभेदविवर्जितं वै
देहात्मयोगं सकलावभासम् । नित्यं पुराणं पुरुषं गणेशं लंबोदरं तं च वयं नताः स्मः ॥६॥ बिंदुस्वरूपं मनसाऽथ गम्यं
पादैर्विहीनं च चतुष्पदं यम् । नानात्मभेदाश्रितमेकदंतं लंबोदरं तं च वयं नताः स्मः ॥७॥ नादस्वरूपं च गुणेशमेकं