मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 544, कुल 1023 में से
संदर्भ में पढ़ेंतद्बाणैरपि तत्रस्था देवाः सर्वे महामुनी । छिन्नांगा अपलन् सद्यो हाहाकाररवा दिशः ॥३५॥ लंबोदरः समाश्वास्य
देवेशस्तान् प्रतापवान् । आययौ रणभूमिं स पाशहस्तोऽसिधारकः ॥३६॥
॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरसमागमो नाम सप्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । लंबोदरं महादैत्यः समालोक्य रणं गतः । जगाद क्रोधसंयुक्तः क्रोधः सर्वविचारवित् ॥१॥
क्रोधासुर उवाच । लंबोदर महामूर्ख किमर्थं रणमागतः । देवानां हितमिच्छन् सन् मरिष्यसि च मेऽग्रतः ॥२॥ येन ब्रह्मांडगं
पूर्णं जितं देवादयः कृताः । पशुतुल्या वने संस्था जेतुमिच्छसि तं मुधा ॥३॥ मम क्रोधो दहेत् सर्वं त्रैलोक्यं
सचराचरम् । तत् पुरः कथमायातः संग्रामाय सुयंत्रितः ॥४॥ त्वया मदीयकं सैन्यं हतं पुत्रौ हतौ तथा । अधुना शोक-
संयुक्तो हनिष्यामि मदान्वितम् ॥५॥ शरणं याहि मां नो चेन् मरिष्यसि गजानन । उदरं स्फोटयिष्यामि बाणेनैकेन ते
महत् ॥६॥ इत्यादि विविधैर्वाक्यैर्लंबोदरं महासुरः । भर्त्सयामास तं देवो जगाद मदसंयुतम् ॥७॥ लंबोदर उवाच । किं मां
वदसि दैत्येंद्र हनिष्यामि महाखलम् । त्वां धर्मस्य निहंतारं स्वधर्मस्थापको ह्यहम् ॥८॥ सूर्यदत्ताद् वराद् दुष्ट दुष्कर्मरतो
भवान् । अतिपापैश्च तत् सर्वं निष्फलं ते बभूव ह ॥९॥ उत्पत्तिनाशयुक्तेभ्यो मरणं नैव ते भवेत् । नाऽहं जातो न दैत्येंद्र
मरिष्यामि कदाचन ॥१०॥ ब्रह्मभूतं च मां विद्धि सदा स्वानंदवासिनम् । कथं जेष्यसि तं दुष्ट मनोवाणीविवर्जितम्
॥११॥ लंबोदरस्य वचनं श्रुत्वा तत्तस्य धीमतः । उवाच विस्मितो भूत्वा तं पुनर्देत्यनायकः ॥१२॥ क्रोधासुर उवाच । न
जातोऽसि यदा ब्रह्मन् कथं देहधरोऽसि वै । मनोवाणीविहीनश्चेत् कथं पश्यामि मां वद ॥१३॥ लंबोदर उवाच । इयं मदीय-
वामांगे सिद्धिर्भ्रांतिस्वरूपिका । सिद्ध्यर्थं सर्वलोकाश्च भ्रमंति भ्रांतिसंयुताः ॥१४॥ दक्षिणांगे स्वयं बुद्धिः संस्थिता भ्रांति-
धारिणी । बुध्या बुध्या पुनस्तत्र भ्रांतो भवति मानवः ॥१५॥ चित्तरूपा स्वयं बुद्धिः पंचधा परिकीर्तिता । पंचभ्रांतिमयी
सिद्धिस्तयोः पतिरहं किल ॥१६॥ नाना विश्वं महादैत्य नाना ब्रह्म तथा सदा । मदीयोदरगं विद्धि तेन लंबोदरः स्मृतः
॥१७॥ ममोदरात् समुत्पन्नं मया संपालितं तथा । अंते उदरगं कृत्वा क्रीडयामि निरंतरम् ॥१८॥ अतो मां शरणं गच्छ