सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 537, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 537
पृष्ठ 537 स्कैन

यहाँ पृष्ठ का मूल देवनागरी पाठ (पंक्ति-दर-पंक्ति), श्लोक-विभाजन, अन्वय तथा हिन्दी अनुवाद सहित प्रस्तुत है:


शीर्षक एवं पृष्ठ संख्या

पान ८


मूल देवनागरी पाठ (Line-by-Line Transcription)

पृथिवीं जेतुं ययौ भूमंडले नृपान् ॥९॥ बलिमुख्यैर्महावीरैः स्थितैर्यरत्र च मानदौ । तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो
भवेत्तदा ॥१०॥ राजानः शरणं जग्मुर्दैत्येंद्रभयपीडिताः । केचिन् मृताश्च तैर्युद्धं कृत्वाऽहंकारसंयुताः ॥११॥ केचिद्राज्यं
परित्यज्य सुदारुणवनं ययुः । एवं वसुंधरा जित्वा मुमुदुः सप्तसागराम् ॥१२॥ राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् ।
मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥१३॥ वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः । बभुः संस्थापिता दैत्याः
सर्वत्र नगरेषु वै ॥१४॥ ततः पाताललोकेषु ययुर्दैत्येंद्रमुख्यकाः । क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥१५॥
दूतमुखेन वृत्तांतं ज्ञात्वा शेष उदारधीः । वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥१६॥ समागतं महानागैः शेषं
ज्ञात्वा समावृतम् । क्रोधासुरः प्रसन्नात्मा मान्यं तं सादरोऽभवत् ॥१७॥ करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः । दत्त्वा
रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥१८॥ ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः । देवस्थानेषु सर्वेषु देवोद्याना-
न्यभंजयत् ॥१९॥ ततो दूतं महादैत्यः प्रेषयामास हर्षितः । जगाद मघवंतं च स गत्वा चेष्टितं महत् ॥२०॥ बृहस्पतिं च
देवेंद्रैस्तत इंद्रः समाययौ । तेन संज्ञापितः सर्वैः प्रपपाल गुहांतरम् ॥२१॥ तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः ।
आययावमरावत्यामिंद्रासनस्थितोऽभवत् ॥२२॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । असुरेभ्यो महादैत्यस्तेषु
दैत्याः स्थिता बभुः ॥२३॥ नाना भोगान् प्रभंजाना देवसौख्यकरान् मुनी । अन्योन्यस्नेहसंयुक्ता

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें