सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 532, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 532

[खं. ५ अ. २ पान ३]


तप उच्यते ॥५०॥ एतद्योगात्मकं सुज्ञ तपस्ते कथितं मया । तृतीयं ब्रह्मदं पूर्णं तदर्थं यत्नमाचर ॥५१॥ तपोधना महाभागा
योगिनस्तत्परायणाः । ब्राह्मणास्तपसा युक्ता ब्रह्मभूता भवंति ते ॥५२॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते असितनैध्रुवसंवादे त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो विस्मितोऽभवत् । प्रणम्य तं महाभागं जगाद
विनयान्वितः ॥१॥ नैध्रुव उवाच । स्वामिन् वद महायोगं योगदं साधनं परम् । तदर्थं कस्य भक्तिर्मे कर्तव्या योगिसत्तम
॥२॥ असित उवाच । शृणु पुत्र प्रवक्ष्यामि लंबोदरकथानकम् । तेन सर्वं महायोगं लभसे नात्र संशयः ॥३॥ एकदाऽहं तथा
पुत्र वत्सरस्ते पिता पुरा । तपसा शुद्धभावेन भवावः स्म च निर्मलौ ॥४॥ ततो योगस्य प्राप्त्यर्थं यत्नवंतौ सुसंस्थितौ ।
अंतर्ज्ञानसमायुक्तौ जडोन्मत्तादिसुप्रियौ ॥५॥ एकाग्रं साधयित्वा वै निरोधे संस्थितौ तथा । सहजावस्थया युक्तौ सुखयुक्तौ
भवावहे ॥६॥ तत्रैव मोहहीनत्वं दृष्ट्वा परमविस्मितौ । शांतिहीनौ ततो जातौ गतौ च ब्रह्मणोऽंतिकम् ॥७॥ तत्र स्पर्धा-
समायुक्तौ विश्वामित्रवसिष्ठकौ । समायातौ प्रणम्यैनं प्रतिष्ठंतौ मदान्वितौ ॥८॥ क्रोधयुक्तौ विधातारं प्रपृच्छंतौ विशेषतः ।
कोऽधिको वद धातस्त्वं तपसा योगसेवया ॥९॥ तच्छ्रुत्वा तौ जगादाऽथ ब्रह्मा सर्वपितामहः । येन क्रोधो जितो नूनं तं
जानाम्यधिकं मुनिम् ॥१०॥ युवां क्रोधयुतौ पूर्णौ तत्र किं विद्यते तपः । सर्वत्र शांतिदं योगं तं यो जयति सोऽधिकः
॥११॥ ततः प्रणम्य विश्वेशं वदतः स्म तपोधनौ । विनयेन समायुक्तौ तपस्पर्धापरायणौ ॥१२॥ वसिष्ठविश्वामित्रावूचतुः ।
कीदृशोऽयं प्रजानाथ क्रोधः सर्वभयंकरः । कुत्र तिष्ठति देवेश किंरूपः किंस्वभाववान् ॥१३॥ जयंति केन योगेन
तं दुष्टं योगिनः प्रभो । सर्वं वद विभो तस्य तं जेष्यावो न संशयः ॥१४॥ ब्रह्मोवाच । अत्राऽहं कथयिष्यामीतिहासम्
सर्वसिद्धिदम् । तेन क्रोधं च कामं चाभिमानं जयति प्रभुः ॥१५॥ शकुनेरभवत् पुत्रः शुक्रं भस्मासुरोऽतपत् । उपसंगम्य
संगृह्य विद्यां पंचाक्षरीं पुरा ॥१६॥ दीक्षां गृह्य महादेवमुपासनविधानतः । साधयामास भावेन भस्मोद्धूलितविग्रहः
॥१७॥ सहस्रे प्रगतेष्वेव प्रसुवर्षेषु शंकरः । तं ययौ वरदानार्थं सर्वदेवसमावृतः ॥१८॥ आगतं शंकरं दृष्ट्वा उत्थाय