सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 355, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 355
पृष्ठ 355 स्कैन

[शीर्षक / पृष्ठ-शीर्षक]
खं. ३ अ. ३२ | पान ७१


मूल संस्कृत पाठ (Line-by-Line Transcription)

प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥८॥ दक्ष उवाच । कथं तेन नृपालेन चतुर्थी भूमिमंडले । समानीता महायोगिन्
वद तस्य चरित्रकम् ॥९॥ श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते । अतो विस्तरभावेन कथयस्व कथानकम् ॥१०॥
मुद्गल उवाच । माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा । अंत्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥११॥ स तु मार्गे जनान्
वीक्ष्याऽमारयत्तन् दिने दिने । मांसविक्रयकारी च पशून् हत्वा निरंतरम् ॥१२॥ एकदा माघमासस्य चतुर्थी कृष्णपक्षगा ।
समागता च तत्राऽसौ विचचार वनांतरे ॥१३॥ महापर्वतदेशे स जनानां प्रबधाय च । दैवयोगेन तस्याऽपि मिलितं
नैव किंचन ॥१४॥ अयं बभ्रामान्नजलविहीनो लोभसंयुतः । मिलितं तत्र नो किंचित्तथाभूतश्चचार ह ॥१५॥ ततोऽस्तमगमत्
सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् । गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥१६॥ मार्गे दुष्टो द्विजांस्तत्र दृष्ट्वा द्वादशसंख्यकान् ।
तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥१७॥ चंद्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः । पुत्रं गणेशनामानमाह्वया-
मास तेन सः ॥१८॥ पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् । कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥१९॥
गणेशदूतास्तं तत्र समानेतुं समाययुः । कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥२०॥ स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वा-
दिभिस्तुतः । विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥२१॥ तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले । माहिष्मत्यां
सुतो जज्ञे धनकस्य महाबलः ॥२२॥ कृतवीर्य इति ख्यातो नानाधर्मपरायणः । देवविप्रातिथिप्रेप्सुर्भूवे यज्ञकारकः ॥२३॥
अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् । पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥२४॥ न लेभे संततिं राजा
ततोऽसौ दुःखसंयुतः । प्रधानेषु समाक्षिप्य राज्यं निहतकंटकम् ॥२५॥ सपत्नीको वनं राजा ययौ तपसि संस्थितः ।
पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥२६॥ नानातपश्चकाराऽसौ संततिं न तथाऽपि च । लेभे नृपः प्रजानाथ नेत्र-
प्राणावशेषितः ॥२७॥ अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः । स्वर्गस्थं धनकं तत्र वृत्तांतमवदन्नृपम् ॥२८॥ तव
पुत्रो वने संस्थः पुत्रार्थं यतते नृप । नानायतनसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥२९॥ न लेभे संततिं राजा स्वल्पकाले
मरिष्यति । पुत्रहीनस्य भो

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें