मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 352, कुल 1023 में से
संदर्भ में पढ़ें[पान ६८]
ययातिं विद्धि मां देवि नाहुषं क्षत्रवंशजम् ॥२५॥ मृगयाऽऽसक्तभावेन प्राप्तं ते दर्शनं महत् । गच्छ त्वं स्वगृहे बाले
गमिष्यामि स्वमालयम् ॥२६॥ तमुवाच प्रजानार्थं देवयानी प्रहर्षिता । काव्यपुत्रीं च मां विद्धि भव त्वं मे पतिः प्रभो
॥२७॥ हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया । त्वदृते न वृणोम्यन्यमतस्त्वं मे पतिर्भव ॥२८॥ तस्यास्तद्वचनं श्रुत्वा
ययातिस्तामुवाच ह । काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः ॥२९॥ ततः सोवाच तं देवयानी शृणु वचो महत् ।
ब्राह्मणो मे न भर्ता च भविता कचशापतः ॥३०॥ अतस्त्वं भयहीनः सन् वृणु मां राजसत्तम । काव्यं संबोधयित्वाऽहं
पत्नी ते प्रभवामि च ॥३१॥ तथेति नृपवर्योऽसौ तां जगाद तथा ययौ । नगरं स महाभागः सा च तत्र स्थिताऽभवत्
॥३२॥ तत्राऽऽगतं नरं कंचित्तमुवाच वद प्रभुम् । काव्यमत्र स्थिता पुत्री देवयानी महामते ॥३३॥ ततस्तेन मुनींद्रोऽसौ
बोधितः शृणु मे वचः । वने ते देवयानी सा पुत्री वत्सल संस्थिता ॥३४॥ शुक्रस्तां प्रययौ शीघ्रं तमुवाच सुविह्वला ।
रुदती देवयानी सा वृत्तांतं सर्वमंजसा ॥३५॥ तं श्रुत्वा कुपितः काव्यस्त्यक्त्वा दैत्यं स निर्ययौ । वनवासार्थमानंदादूहयन्
वृत्तिमुल्बणाम् ॥३६॥ ततो दैत्याधिपः श्रुत्वा वृत्तांतं विह्वलो भृशम् । तं ययौ धावमानः स प्रणनाम महामुनिम् ॥३७॥
उवाच भक्तिसंयुक्तं वचनं दैत्यनायकः । त्वदाधारमिदं राज्यं देहोऽयं मे तथा मुने ॥३८॥ मुनिसत्तम मां त्यक्त्वा कुत्र
गंतुं त्वमिच्छसि । राज्यादिकं परित्यज्य याम्यहं ते प्रसन्निधौ ॥३९॥ तस्य तद्वचनं श्रुत्वा काव्यः पुत्रीमुवाच ह । चल
त्वं राजकन्याया अपराधं क्षमस्व च ॥४०॥ देवयानी मुनिं तत्रोवाच क्रोधसमन्विता । नाऽहं यामि पितः पुर्यां देहत्यागं
करोमि वै ॥४१॥ ततः पुत्रीं स्वयं काव्य ऊचे तां शोकसंकुलः । किमिच्छसि वद त्वं म उपायं तं करोम्यहम् ॥४२॥
ततस्तं देवयानी सोवाच क्रोधसमन्विता । सखीभिः सहिता दासी शर्मिष्ठा मे भवेद्यदि ॥४३॥ यत्र दास्यसि मां तात
तत्रेयं सहगा भवेत् । तदाहं नगरे यामि हृष्टा दैत्याधिपस्य च ॥४४॥ उवाच काव्यो दैत्येशं तं पुत्रीवत्सलस्ततः ।
तथेति दैत्यराजः स गृहे काव्यं समानयत् ॥४५॥ काव्येन नाहुषायैव दत्ता पुत्री विधानतः । तत्र दासी स्वभावेन
शर्मिष्ठा प्रययौ विधे ॥४६॥ कदाचित्तत्र शर्मिष्ठाऽभवदृऋतुयुता स्वयम् । राजानं वाटिकामध्ये उवाच विनयान्विता ॥४७॥
सख्या मे देवयान्या त्वं महीपाल वृतो यदा । पतिस्तदा मया नाथ त्वमेव मनसा वृतः ॥४८॥ ऋतुयुक्तां स्त्रियं स्वामिन्
भज त्वं भक्तिसंयुताम् । तथेति नाहुषेणैव वृता सा गुप्तभावतः ॥४९॥ देवयान्या चरित्रं न तस्या ज्ञातं प्रजापते ।