सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 344, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 344

[पान ६०]

बृहस्पतेश्च या नारी तारा यौवनशालिनी। रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥१३॥ मा मेति ब्रुवतीं तारां
हाहाकारं प्रकुर्वतीम् । गुरुपत्नीं महामूर्खश्चुचुंब हठसंयुतः ॥१४॥ वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः । रेमे तया
प्रजापाल कामबाणप्रपीडितः ॥१५॥ ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत । न मुमोच तदाऽप्येतां मोहयुक्तश्च चंद्रमाः
॥१६॥ बृहस्पतिश्च तं ज्ञात्वा वृत्तांतं क्षुभितो भृशम् । नानायत्नेन चंद्रं स ययाचे न ददौ शठः ॥१७॥ ततश्च गुरुणा दक्ष
शिवस्तेन प्रसादितः । शंभुरंगिरसः शिष्यः स वै क्रोधयुतोऽभवत् ॥१८॥ देवैरिंद्रादिभिः सर्वैः शंकरः क्रोधसंयुतः ।
हंतुं चंद्रं ययौ तत्र क्रोधारुणविलोचनः ॥१९॥ भयभीतः शशी तत्र शुक्रं स शरणं ययौ । तेनाप्यांगिरस्यैव वैरी
संपादितोऽभवत् ॥२०॥ शुक्रेणाकारिता दैत्याः प्रह्लादप्रमुखा ययुः । संग्रामाय शिवेनैव ससुरेण महाबलाः ॥२१॥
ततस्तेषामभूद्युद्धं तुमुलं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥२२॥ मासमात्रं महोग्रं तन्न शांतिमलभन्
कदा । दिवारात्रं देवगणा दैत्यानां च गणा विभो ॥२३॥ ततो बृहस्पतिर्दुःखात् सस्मार गणनायकम् । निंदयामास चात्मानं
तथा चंद्रं प्रजापते ॥२४॥ अहो भ्रातृविरोधेन मम ज्ञानं गतं महत् । गतो गणेशस्तेनाऽहं विघ्नयुक्तोऽधुनाऽभवम् ॥२५॥
मदर्थं देवदैत्यानामधुना नाश आगतः । किं भविष्यति देवेश गजानन नमोऽस्तु ते ॥२६॥ निर्विघ्नं कुरु मां ढूंढेऽधुना देव
दयानिधे । देवानां चैव दैत्यानां मूलच्छेदो भविष्यति ॥२७॥ तथा चंद्रः स तं देवं सस्मार हृदि भावतः । ततो
विघ्नहरश्चैव तयोर्दक्ष बभूव ह ॥२८॥ तत्राऽऽजगाम देवेशो ब्रह्मा सर्वपितामहः । देवानां दानवानां वै ज्ञात्वा नाशं
दयान्वितः ॥२९॥ शंकराद्यांश्च देवान् स प्रह्लादाद्यांश्च दानवान् । वारयामास सर्वज्ञो विधाता सर्वभावनः ॥३०॥ ब्रह्मणो
वचनं श्रुत्वा संस्थिता देवदानवाः। प्रणम्य तं विधातारं बद्धांजलिपुटाः पुरः ॥३१॥ चंद्रं ततस्तिरस्कृत्य ददौ तारां पितामहः।
गुरवे तत्र संवादः पुत्रार्थं च तयोरभूत् ॥३२॥ ताराया उदरे गर्भो वा चंद्रस्य बृहस्पतेः । न ज्ञायते देवगणैस्ततस्तां
विधिरब्रवीत् ॥३३॥ त्यज गर्भं महाभागे कस्यांऽशोऽयं वद स्नुषे । तथा तया च संत्यक्तो गर्भः संपतितोऽभवत् ॥३४॥
महातेजोमयं पुत्रं वीक्ष्य देवा विसिस्मिरे । लज्जयाऽधोमुखी तारा कथयामास नैव तम् ॥३५॥ ततो गर्भः स्वयं तत्रोवाच
ब्रह्माणमादरात् । चंद्रस्याऽहं न संदेहस्तं ताराऽपि तथाऽब्रवीत् ॥३६॥ तस्य नाम कृतं देवैर्बुधस्तेन सुकर्मणा । चंद्राय तं
ददौ धाता सर्वे स्वस्वालयं ययुः ॥३७॥ एवं पुरा तारकार्थे संग्रामस्तारकामयः । बभूव परमोग्रश्च दैत्यदेवविनाशकृत् ॥३८॥