सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 268, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 268

पान १४२
मिलितौ गणपं निशि । ध्यायन्तौ भावसंयुक्तौ जेपतुर्मन्त्रमुत्तमम् ॥२०॥ ततस्तयोर्गणेशानो दर्शयामास चोत्तमम् ।
रूपं चतुर्भुजं साक्षाद्गजवक्रादिचिह्नितम् ॥२१॥ तं दृष्ट्वा सहसोत्थाय नेमतुश्चरणाम्बुजे । सरोमांचौ तुष्टुवतुः साश्रुनेत्रौ
गणेश्वरम् ॥२२॥ राधाकृष्णावूचतुः । नमस्तुभ्यं पुष्टिफ्ते नमः शंकरसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥२३॥
स्वानंदवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥२४॥ हेरंबाय नमस्तुभ्यं नमो
योगमयाय च । सर्वाद्ये च सर्वेश सर्वज्ञाय नमो नमः ॥२५॥ निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय वै
तुभ्यमभेदाय तयोर्नमः ॥२६॥ शांतिरूपाय शांताय शांतिदाय महोदर । मूषकश्रेष्ठयानाय गाणपत्यप्रियाय ते ॥२७॥
अनंतानन्तरूपाय भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥२८॥ चतुर्बाहुधरायैव नागयज्ञोपवीतिने ।
शूर्पकर्णाय शूराय परशोधर ते नमः ॥२९॥ विष्णुपूत्राय सर्वेषां पित्रे मात्रे नमो नमः । विनायकाय विप्राणां पुत्राय च
नमो नमः ॥३०॥ सर्वेषां गर्वहंत्रे च सर्वेभ्यः सुखदाय ते । लंबोदराय विघ्नेश ब्रह्मनायक ते नमः ॥३१॥ किं स्तुवस्त्ववां गणाधीश
यत्र वेदादयः प्रभो । शंभुः शुकादयश्चैव बभूवुः कुंठिताः परम् ॥३२॥ आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो । तव
तत्र च विघ्नेन कृतं गर्वस्य खंडनम् ॥३३॥ साधूनां विघ्नदाता त्वं शांतियोगार्थमंजसा । असाधूनां विनाशाय ह्यतस्त्वां
प्रणमावहे ॥३४॥ विघ्नयुक्ततया ढूंढे आवाभ्यां योगसेवया । साक्षात्कारकृतस्त्वं वै समीचीनमिदं कृतम् ॥३५॥ हृदि
चिंतामणिं त्वां च पश्यावः सततं प्रभो । अतः स शुभदो विघ्नः संजातो नौ गजानन ॥३६॥ अधुना देहि विघ्नेश भक्तिं
ते चरणाम्बुजे । दृढां यया च गर्वेण न भवावः समायुतौ ॥३७॥ इत्युक्त्वा तं ननृततुः प्रणम्यैव मुदान्वितौ ।
धन्यौ धन्यौ प्रब्रुवंतौ दर्शनाद्गणपस्य तौ ॥३८॥ ब्रह्मोवाच । जगाद गणनांथस्तौ ततो वै भक्तिभावितः । दृष्ट्वा ब्रह्मरसा-
ह्लादयुतौ राधाजनार्दनौ ॥३९॥ पुष्टिपतिरुवाच । भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ । मदीयां भक्तिमत्यंतं संशयो
न करिष्यथः ॥४०॥ संकटे स्मरणेनैव प्रकटः संभवाम्यहम् । यं यमिच्छथ आनंदं सफलः स भविष्यति ॥४१॥
भवत्कृतमिदं स्तोत्रं पठतां शृण्वतां नृणाम् । सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरेश्वरौ ॥४२॥ मत्प्रीतिवर्धनं नित्यं
वाञ्छितार्थकरं भवेत् । अंते स्वानंददं कृष्ण भविष्यति न संशयः ॥४३॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
तौ तं हृदि विशेषेण पश्यंतौ तस्थतुर्निशि ॥४४॥ ततः पुनश्च गोलोके गतौ राधाहरी स्वके । बभूवतुरखंडैश्वर्यसंयुक्तौ