मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 244, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का पूर्ण देवनागरी लिप्यंतरण प्रस्तुत है:
खं. २ अ. ५६ | पान ११८
ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ
तस्यास्तद्वचनं श्रुत्वा गणेशस्य मनुं ददौ । अष्टाक्षरं तया तेनाराधितो ह्येकदंतकः ॥२६॥ सहस्रवर्षपूर्तौ तां वरदः स
समाययौ । तया पुत्रो भव स्वामिन् याचितः स तथाऽकरोत् ॥२७॥ अदित्यां कश्यपाच्चैव संभूतः पुत्रतां गतः । माया-
मस्थाय विघ्नेशश्चिक्रीड प्राकृतो यथा ॥२८॥ एकदा राक्षसी घोरा विरजास्तं जगाल ह । विदार्य जठरं तस्या बहिर्यातो
ममार सा ॥२९॥ उद्धतौ धुंधुरत्युग्रौ शुकरूपौ समागतौ । धृत्वा तौ स्फालितौ शैले मृतौ दैत्यौ तथाऽकरोत् ॥३०॥
कदाचित् सहिता तेन स्नानार्थमदितिर्ययौ । तत्र तं मकराकारो गंधर्वश्च पदेऽग्रहीत् ॥३१॥ तेनोड्डीनं कृतं पश्चाद्वहिः स च
ममार ह । शापमुक्तोऽभवच्चित्रं तं प्रणम्य ययौ दिवम् ॥३२॥ उपवीतप्रदाने वै राक्षसा विप्रलिंगिनः । पंच तं हंतुमायाता
हतास्तेन क्षणेन ते ॥३३॥ कर्मणि प्रसमाप्ते तं ब्रह्मविष्ण्वादयः सुराः । मुनयश्च वसिष्ठाद्या नेमुर्भक्तिसमन्विताः ॥३४॥
इंद्रस्तत्र मदेनैव संसिक्तो न ननाम तम् । कश्यपेन समाज्ञप्तस्तथाऽपि ज्येष्ठभावतः ॥३५॥ परीक्षार्थं महेंद्रण बालं हंतुं
प्रभंजनः । प्रेरितः सोऽपि भग्नौऽभूत्ततोऽग्निं स समादिशत् ॥३६॥ इंद्रेणाऽऽज्ञापितो वह्निस्तं दग्धुं सहसाऽऽगतः । गिलित-
स्तेन बालेन महेंद्रो विस्मितोऽभवत् ॥३७॥ विनायकेन देवेंद्रः श्वासेन जठरे स्वके । नीतस्तत्र सविस्तारं ददर्श सकलं
जगत् ॥३८॥ एवं नानांडकं दृष्ट्वा हतगर्बोऽभवत् स्वयम् । न ददर्श बहिर्यातुं मार्गं वर्षशतेन वै ॥३९॥ ततस्तं प्रार्थयामास
विनायकमनामयम् । तेनाऽपि श्वासमार्गेण बहिर्निष्कासितो हरिः ॥४०॥ ततस्तेन महेंद्रण दृष्टं कौतुकमुत्तमम् ।
कालोद्भवं महच्चित्रं तच्छृणुष्व महासुर ॥४१॥ विनायकस्य वर्षाणि जठरे स शतं स्वयम् । संस्थितश्च बहिश्च तत्र क्षण
एकस्तथाऽभवत् ॥४२॥ ततस्तं प्रणनामाऽऽदौ स्तुत्वा च विविधैः स्तवैः । चकार साधुभावेन स भक्तिं नित्यमादरात् ॥४३॥
ततः कदाचित् काशीपो मुनिगेहं समाययौ । पुत्रस्योद्वाहसिद्ध्यर्थं कश्यपं तममंत्रयत् ॥४४॥ मुनिर्यज्ञेन रुद्धो वै पुत्रं तस्मै
ददौ लघुम् । उपाध्यायत्वसिद्ध्यर्थं विधानज्ञो विनायकम् ॥४५॥ काशिराजो गणेशं संगृह्य मार्गे जगाम ह । तत्र
धूम्राक्षदैत्येशं सूर्यास्त्रेण जघान सः ॥४६॥ तस्य पुत्रौ महावीर्यौ जघनश्च मनुः स्मृतौ । भक्षणार्थं समायातौ विनायक-
मनामयम् ॥४७॥ विनायकेन निःश्वासेन नीतौ गगने गतौ । भ्रमंतौ पतितौ तत्र नरांतकसुमंदिरे ॥४८॥ नरांतकस्तत-
स्ताभ्यां ज्ञात्वा वृत्तांतमुल्बणम् । शतानि पंच रक्षांसि प्रेषयामास दैत्यपः ॥४९॥ तेन दृष्टा महावीरा राक्षसा गणपेन च ।
हुंकारेण महोग्रेण मम्लुः सर्वे भयातुराः ॥५०॥ ततः स काशिराजेन सहितश्च विनायकः । काशीं प्राप्तस्तदा लोकैरविशत्
ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ