मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 239, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ५४ पान ११३
विना प्राप्तस्तं यामि शरणं ततः ॥ ४९ ॥ भक्त्या संयोगिनो नित्यं भजंते शुकमुख्याः । ब्रह्मभूता महाभागास्तं यामि
शरणं ततः ॥ ५० ॥ एवं भक्त्या मदो दैत्यः परियुक्तो महामते । त्यक्त्वाऽभिमानजं दोषं तमेव शरणं ययौ ॥ ५१ ॥
॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरपराजयो नाम त्रिपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरः प्रणम्याऽऽदौ परशुं यमसंन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं
भयात् ॥१॥ मदासुर उवाच । नमस्ते शस्त्रराजाय नमस्ते परशो महन् । तेजःपुंजमयायैव कालकालाय ते नमः ॥२॥
एकदंतस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् । त्वमेव नात्र संदेहो रक्ष मां शरणागतम् ॥३॥ कालरूपस्त्वमेवेह महाप्रलयसूचकः ।
कः समर्थश्च ते वेगसहने देहधारकः ॥४॥ अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् । रक्ष मां भयभीतं वै शरणागत-
वत्सल ॥५॥ एवं स्तुवंतमत्यंतं परशुः शांतिमादधे । ययौ त्यक्त्वा पुनर्हस्ते एकदंतस्य दैत्यप ॥६॥ ततो मदासुरः शीघ्रं
ययौ तं शरणं भयात् । एकदंतं प्रणम्याऽऽदौ पूजयामास सादरम् ॥७॥ पूजयित्वा यथान्यायं गणेशं धरणीतले । दंडवत्तं
प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥८॥ मदासुर उवाच । नमस्त एकदंताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय
नमो नमः ॥९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बंधहीनाय ते नमः ॥१०॥ चतुर्बाहुधरायैव
लंबोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरंबाय नमो नमः ॥११॥ चिंतामणिधरायैव चित्तस्थाय गजानन । नानाभूषण-
युक्ताय गणाधिपतये नमः ॥१२॥ अनंतविभवायैवानंतमायाप्रचालक । भक्तानंदप्रदात्रे ते विघ्नेशाय नमो नमः ॥१३॥
योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदंतप्रधारिणे ॥१४॥ मायाकारं शरीरं त एकशब्दः
प्रकथ्यते । दंतः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥१५॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः
स्यादतस्ते वै नमो नमः ॥१६॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥१७॥
रक्ष मामेकदंतस्त्वं शरणागतमंजसा । भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥१८॥ एवमुक्त्वा प्रणम्यापि मदः कृत्वा
प्रदक्षिणाम् । कृतांजलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥१९॥ तमुवाच गणाधीशः प्रहृष्टेनांतरात्मना । विकाररहितं दृष्ट्वा