सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 227, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 227

खं. २ अ. ४८ पान १०१
गमिष्याम्यमरावतीम् ॥५१॥ आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमम् । अधुना शक्तिसंयुक्तः कदनं ते
करोम्यहम् ॥५२॥ किं बहूक्तेन दैत्येंद्र दर्शय स्वपराक्रमम् । नोचेद्गच्छस्व पातालं मिथ्या वल्गसि किं वचः ॥५३॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते इंद्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं गदित्वा देवेंद्रो दैत्येंद्रं क्रोधसंयुक्तम् । तारकं शरवर्षेण ववर्ष रणमंडले ॥१॥
एकस्मान् मंत्रिताद्वाणादनंतैर्निःसृतैः शरैः । बभूवुर्दैत्यसंघाताः पीडितास्तैः समंततः ॥२॥ ततो दैत्यः स दैत्येशाः
प्रधानप्रमुखाः स्थिताः । शरवर्षाणि सर्वत्र चक्रुः परमदारुणाः ॥३॥ तैर्बाणैर्देवसैन्यानां हता वीरा अनेकशः ।
छिन्नांगाः पतितास्तत्र रुधिरौघप्रवर्षिणः ॥४॥ यत्र तत्र पलायंत देवा भयसमाकुलाः । त्रातारं नाभ्यपश्यंत प्रलयेषु
यथा प्रजाः ॥५॥ तेषां तत्कर्म दृष्ट्वा ते ववृषुः सुरपा शरान् । अग्निधर्मादयस्तत्र कालमृत्युपमान् दृढान् ॥६॥
तैराहतं बलं पूर्णं दैत्यानां यत्र तत्र ते । मृता मुमूर्षवः सर्वे बभूवू राक्षसा मृधे ॥७॥ ततोऽतिकुपितो
दैत्यस्तारकोऽतिभयानकः । निष्कास्य सुदृढं बाणं मोचयामास दारुणम् ॥८॥ आकर्ण धनुराकृष्य दीप्तो बाणो सुरेश्वर ।
इंद्रस्य सहसागत्य हृदि संपतितोऽभवत् ॥९॥ तेन संपीडितो देवो मूर्च्छितो देवनायकः । मुहूर्तात् सावधानोऽभूद्वज्रं
हस्ते समाददे ॥१०॥ वज्रेण ताडितोऽत्यंतं तारको दैत्यपुंगवः । पतितः स धरापृष्ठे गतप्राण इवाऽभवत् ॥११॥
एवं वरुणवह्न्याद्यैर्वायुधर्मकुबेरकैः । हता दैत्या अनेके च पतिता मूर्च्छिता मृताः ॥१२॥ हाहाकारश्च सर्वत्र
दैत्यसैन्ये प्रवर्तितः । पलायंत च दिक्प्रांते त्रासिता देवनायकैः ॥१३॥ ततः शुक्रेण ते सर्वे तारकाद्या महासुराः ।
विद्यया सावधानाश्च कृता युद्धाय सज्जिताः ॥१४॥ अग्निमंत्रसमायुक्तं बाणं धनुषि संदधे । तारकः क्रोधसंयुक्तो
दाहकं स मुमोच ह ॥१५॥ पतितो देवसैन्ये च बाणस्तस्मान् महाबलः । निःसृतः पुरुषस्तत्र भक्षयामास वै सुरान् ॥१६॥
मेरुमंदरसंकाशो विचचार महाबलः । देवसैन्येषु दैत्येंद्र प्रलयाग्निसमोऽदहन् ॥१७॥ अग्निज्वालाश्च सर्वत्र
समुद्भूता भयानकाः । अदहद्देवसंघांस्तान् वाहनैः सहितान् मृधे ॥१८॥ हाहाकाररवा देवाः पलायनमकुर्वत ।