सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 194, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 194

पान ६८

श्रवसि स्वयम् । पीडयित्वा शिरोभिस्तच्चरणे ध्वनिमाचरत् ॥३०॥ मृदुर्मधुररूपः स शब्दश्च शिरसाऽभवत् । श्रुत्वा
गजाननो हृष्टो बभूव परमं तदा ॥३१॥ ततो विष्ण्वादिभिर्देवैर्भृग्वादिप्रमुखैस्तथा । मुनिभिश्च कृतं दक्ष ततोऽत्यंतं
मुमोद सः ॥३२॥ भूत्वा तु मूषकारूढो चतुरायुधभूषितः । गजासुरवधार्थाय ययौ गणपतिः स्वयम् ॥३३॥ महिषाख्ये
पुरे गत्वा सिंहनादं चकार सः । तेन भ्रांताश्चासुरास्ते गजदैत्यस्तथा स्वयम् ॥३४॥ एतस्मिन्नंतरे तत्र गुल्मस्था असुरा
ययुः । छिन्नभिन्नीकृतांगा वै शशंसुर्देवचेष्टितम् ॥३५॥ असुरा ऊचुः । गणेशेन समायुक्ता देवा मुनिगणाः प्रभो ।
आययुर्युद्धमत्यंतं मदयुक्ता गजासुर ॥३६॥ तेषां वचनमाकर्ण्य गजदैत्यः प्रतापवान् । सर्वानाज्ञापयामास
दैत्यान् सञ्जीभवंत्विति ॥३७॥ स्वयं सुसज्जितो भूत्वा रथारूढश्च निर्ययौ । अनु तं दैत्यसैन्येशा दैत्यास्ते निर्ययुः पुरात्
॥३८॥ अपारसेनया युक्तं तं ददर्श गजासुरम् । गजाननः प्रसन्नात्मा कालस्य भयदायकः ॥३९॥ ततो गजासुरः
कोपादैत्यानाज्ञापयत्तदा । संहरध्वं सुरान् सर्वान् मुनीन् यक्षादिसंयुतान् ॥४०॥ दैत्येंद्रेण समाज्ञप्ता असुरा जयशालिनः ।
अस्त्रैः शस्त्रैश्च ते देवान् पीडयामासुरोजसा ॥४१॥ देवाः क्रोधसमाविष्टा मरणे कृतनिश्चयाः । दैत्यान् प्रहरणैर्जघ्नुः
शस्त्रैर्नानाविधैस्तदा ॥४२॥ दैत्यानां चैव देवानां युद्धं परमदारुणम् । बभूव तुमुलं तत्र परस्परविनाशनम् ॥४३॥
असृङ्नदी प्रवृत्ता च महौघा वीरमोहिनी । भग्ना दैत्यगणास्तत्र प्रहारपरिपीडिताः ॥४४॥ त्यक्त्वा दैत्यगणा लज्जां
पलायंत दिशो दश । तत् दृष्ट्वा दैत्यराजस्तु विस्मितोऽभूत् प्रजापते ॥४५॥ ततो दैत्याधिपाः क्रूराः प्रधानप्रमुखा रणम् ।
आययुर्देवसेनां ते निर्जघ्नुश्च महाबलाः ॥४६॥ तत इंद्रादिभिस्ते वै रणं कृत्वा सुदारुणम् । निहता मूर्च्छिताः केचिद्रणे
भूमौ निपातिताः ॥४७॥ हा हा दैत्यगणाः कृत्वा पलायंत दिशो दश । तत् दृष्ट्वा दैत्यराजः स विस्मयं परमं ययौ ॥४८॥
विपरीतं मया दृष्टं वह्निः शीतो यथाऽभवत् । तथा देवैर्मदीयेयं सेना सर्वा पराजिता ॥४९॥ एवं मनसि संतप्तः
क्रोधारुणविलोचनः । रथारूढः स्वयं योद्धुमाययौ स गजासुरः ॥५०॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः ॥