मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 182, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (transcription) प्रस्तुत है:
पान ५६
शांतिप्रदायकः ॥३६॥ गणेशोऽयं महाराज समूहानां पतिः स्मृतः । समूहा ब्रह्मरूपाश्च ज्ञातव्या ज्ञानचक्षुषा ॥३७॥
तं भजस्व महीपाल हृदिस्थं गणनायकम् । बुद्धिप्रकाशकं पूर्णं बुद्धीशं शांतिदायकम् ॥३८॥ एवमुक्त्वा महायोगी
नारदो विरराम ह । सोऽपि श्रुत्वा प्रणम्यादानुवाच मुनिपुंगवम् ॥३९॥ प्राचीनबर्हिरुवाच । भो भो योगिन् दयासिंधो
तारितोऽहं त्वयाधुना । मत् समीपस्थिता विप्रा न जानंति त्विदं परम् ॥४०॥ नारदोंऽतर्दधे सद्यः प्रययौ गणपं स्मरन् ।
वीणागानरतो योगी स्वेच्छाचारी सदासुखी ॥४१॥ प्राचीनबर्हिराजर्षिस्त्यक्त्वाऽमात्येषु सत्वरम् । राज्यं वनं ययौ
सोऽपि गणेशध्यानतत्परः ॥४२॥ नारदेन यथा तस्य कथितं ज्ञानमुत्तमम् । यथायोगं क्रमेणापि योगी गाणेशकोऽभवत्
॥४३॥ अंते लयं ययौ राजा गणेशे ब्रह्मरूपिणि । ब्रह्मभूतो नृपश्रेष्ठः कथितोऽसौ प्रजापते ॥४४॥ प्राचीनबर्हिराजर्षेश्चरितं
यः शृणोति च । पठेद्वा तस्य पापं हि नाशयेत् सर्वदं भवेत् ॥४५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्राचीनबर्हिषः पुत्रास्तेपुस्ते तप उत्तमम् । सहस्त्रवर्षपर्यंतं ततस्तुष्टो जनार्दनः ॥१॥ आययौ
तान् वरं दातुं गरुडस्थश्चतुर्भुजः । तं दृष्ट्वा ते प्रणेमुश्चापूजयंस्तुष्टुवुर्मुदा ॥ २ ॥ प्रचेतस ऊचुः । नमस्ते केशवायैव नमस्ते भूत-
भावन । निराकाराय कृष्णाय विष्णवे प्र भविष्णवे ॥३॥ आदिमध्यांतहीनाय वासुदेवाय ते नमः । सर्वाज्ञानविनाशाय ज्ञानदात्रे
कृपालवे ॥४॥ लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥५॥ भक्तिमुक्तिप्रदायैव
वैकुंठपतये नमः । नारायणाय शांताय सत्त्वयुक्ताय ते नमः ॥६॥ वयं सपितरो धन्या यैः प्रहृष्टो जनार्दनः । वरं देहि
विशेषेण सृष्टिसामर्थ्यदायकम् ॥७॥ एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः । सामर्थ्यमतुलं सृष्टौ भविष्यति च वः
सुखम् ॥८॥ तपसा सिद्धरूपाश्च भवंतो नात्र संशयः । यद्यदिच्छथ तत्तद्भोः सफलं प्र भविष्यति ॥ ९ ॥ भवत्कृतमिदं
स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां शृण्वतां चैव मत्प्रसादकरं परम् ॥१०॥ एवमुक्त्वांतर्दधेऽसौ विष्णुः परपुरंजयः ।
तेऽपि त्यक्त्वाऽऽश्रमं सद्यो जग्मुः स्वगृहमुत्तमम् ॥११॥ गच्छतां पथि तेषां वै मार्गे वृक्षा अनेकशः । अराजके समुत्पन्ना