मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 167, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १८ पान ४१
संस्थिताय च । सर्वांत एकरूपाय मध्ये नानास्वरूपिणे ॥ १३ ॥ आदिमध्यांतहीनाय सृष्टिस्थित्यंतकारिणे । अनंतोदर-
संस्थाय लंबोदर नमोऽस्तु ते ॥ १४ ॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु
ते ॥ १५ ॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशांकुशधरायैव स्तुताय च विभूतिभिः ॥ १६ ॥ चतुर्भुजधरायैव
चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥१७॥ यं वेदवादिनः स्तोतुं वेदाः सांगाश्च योगिनः । शिवविष्णु-
मुखा देवा न समर्था भवंति वै ॥ १८ ॥ तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् । अतो वै प्रणमामि त्वां प्रसन्नो भव
सर्वदा ॥ १९ ॥ वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् । तव भक्तिं दृढां हुंदे व्यभिचारविवर्जिताम् ॥ २० ॥
एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः । तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१ ॥ गणेश उवाच । मदीया सुदृढा
भक्तिर्व्यभिचारविवर्जिता । भविष्यति महायोगिन् तव चानंददायिका ॥ २२ ॥ यदा मे स्मरणं त्वं वै करिष्यसि महामते ।
तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३ ॥ भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् । भुक्तिमुक्तिप्रदं प्रोक्तं
शांतियोगप्रदायकम् ॥२४॥ यः पठिष्यति वै मर्त्यः शृणुयात्सर्वसौख्यभाक् । भविष्यति न संदेहो यथा त्वं स तथा भवेत्
॥२५॥ मुद्गल उवाच । एवमुक्त्वा गणाधीशस्तत्रैवांतर्दधे प्रभुः । पुलहस्तत्र संस्तथावभजत्तं गणाधिपम् ॥२६॥ मृगरूपधरस्तत्र
भरतः पृथिवीपतिः । संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥२७॥ ब्रह्मणा कथितं यच्च पुलहाय सुधीमते । तदेव तेन
भूपेन धृतं स्वहृदि सर्वदा ॥२८॥ मनसि ध्यानसंयुक्तो बभूव मृगदेहजः । गणेशस्य सदा दृष्टस्तत्र वासं चकार सः ॥२९॥
ततस्तेन च संगीतं तच्छृणुष्व प्रजापते। अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥३०॥ राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं
हरिं स्मरन् । तत्रापि मृगसंगेन संजातो मृगरूपधृक् ॥३१॥ विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः । तत्र कोऽहं मनुष्यो
वै जयन् वै विघ्नमुल्बणम् ॥३२॥ विघ्नराजप्रसादेन विघ्नं निघ्नंति दुर्जयम् । शिवविष्ण्वादयः सर्वे जंतवश्च तथा परे ॥३३॥ धन्या
भक्तिर्मत्कृता या वैष्णवी परमाद्भुता । यया संस्कारसंयुक्तं संप्राप्तं ज्ञानमुत्तमम् ॥३४॥ गाणपतयो महायोगी दृष्टो वै पुलहो
मया । अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥३५॥ येनाहं गाणपत्यानां संगे तिष्ठामि नित्यशः । विघ्नहीनः स्वभावेन
भजामि गणनायकम् ॥३६॥ एवं गणेशभक्त्या वै संयुतो मृगसत्तमः । कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥३७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥