मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 163, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १६ पान ३७
☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
शिवः शिवकरः सताम् । ऋषभोडपि प्रसन्नात्मा तं प्रणम्य ययौ वनम् ॥ ३७ ॥ कथितं शंकरेणैवमभ्यस्यन् योगमुत्तमम् ।
क्रमेण पूर्वयोगी स जातो शांतिस्वरूपधृक् ॥ ३८ ॥ तथापि गणपं दक्ष न मुमोच क्षणं मुनिः । तेन तस्य समीपेऽसौ
गणेशानः समाययौ ॥ ३९ ॥ आगतं गणपं दृष्ट्वा भक्तिभावेन यंत्रितम् । प्रणाम स साष्टांगं हर्षगद्गदभाषणः ॥ ४० ॥
सरोमांचशरीरश्च साश्रुनेत्रो महायशाः । तुष्टाव तं गणाधीशं प्रांजलिर्हृष्टमानसः ॥४१॥ ऋषभ उवाच । नमस्ते ब्रह्मरूपाय
गणेश करुणानिधे । भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२ ॥ निराकाराय नित्याय जगदाकारमूर्तये । अनंताय
परेशाय परात्परतराय ते ॥४३॥ आदिमध्यांतहीनाय गुणाकाराय ते नमः । गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४ ॥
नमो नानावताराय भक्तपालनहेतवे । सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५ ॥ योगाय योगदात्रे च योगाकाराय ते
नमः । योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ ४६ ॥ सर्वाद्ये गणाध्यक्ष सर्वपूज्याय ढुंढये । सर्वांते ह्यवशिष्टाय
विघ्नेशाय नमो नमः ॥ ४७ ॥ हेरंबाय निजानंदवासिने सिद्धसेवित । सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ ४८ ॥
धर्मार्थकाममोक्षाणां दायकाय नमो नमः । ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ ४९ ॥ किं स्तौमि त्वां गणाधीश
योगशांतिमयं प्रभो । यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ ५० ॥ तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया ।
भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ ५१ ॥ मुद्गल उवाच । इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः ।
गणेशस्य च तेनापि समुत्थापित आदरात् ॥ ५२ ॥ जगाद गणनांथः स ऋषभं भक्तमुत्तमम् । शिवशिष्यं शिवप्रज्ञं
साक्षाद्विष्णुं सनातनम् ॥ ५३ ॥ गणेश उवाच । मदीया भक्तिरत्यंतं भविष्यत्यचलानघ । स्तोत्रं त्वया कृतं मे तु शांतिदं
प्रभविष्यति ॥ ५४ ॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । श्रवणान्नात्र संदेहो भावपूर्ण मतं मम ॥ ५५ ॥
इत्युक्त्वांतर्दधे देवो गणेशो गणवल्लभः । ऋषभश्च सदा शांतो योगी गाणेशतां गतः ॥ ५६ ॥ इदं चरित्रं मुख्यं वै यः
शृणोति नरोत्तमः । ऋषभस्य महापुण्यं पठेद्वा तस्य सर्वदम् ॥ ५७ ॥ भविष्यति न संदेहो ब्रह्मभूयप्रदायकम् । शांतिदं
शांतचित्तेभ्यः कथितं भक्तिसंयुतम् ॥ ५८ ॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः ॥
❧❦❧
☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸