सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 133, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 133

खं. २ अ. ३ पान ७
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
सिद्धिः सर्वत्र कथ्यते । ब्रह्मभूयकरी साक्षाज्जानीहि पुरुषोत्तम ॥२५॥ ब्रह्मणि ब्रह्मभूतो यस्तस्य किं भ्रान्तिरुच्यते ।
धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य वा विभो ॥२६॥ तस्य पंचविधं चित्तं नास्ति जानीहि निश्चितम् । तदा योगी समाख्यातो
गणेशाभेदतां गतः ॥२७॥ संप्रज्ञातसमाधिस्थो गकारः कथ्यते बुधैः । असंप्रज्ञातरूपो वै णकारो वेदवादिभिः ॥२८॥
तयोः स्वामी गणेशोऽयं शांतियोगमयः सदा । नेतिरूपोऽहमव्यक्तस्त्वं समात्मक उच्यसे ॥२९॥ यत्र कुत्र
प्रदृष्टा वै वयं सर्वे भवात्मकाः । भवप्रत्यययोगस्थो गणेशः पंचधाऽभवत् ॥३०॥ स तु मायामयः प्रोक्तो वेदेषु
खलु केशव । मायाहीनो गणेशान उपायप्रत्ययात्मकः ॥३१॥ साक्षाद्गणेशरूपे च मायायुक्तवियुक्तता । नास्ति
तस्मात्स वै शांत्या लभ्यते नान्यथा क्वचित् ॥३२॥ गणेशोऽहं सदा ब्रह्म ब्रह्मणां पतिरंजसा । योगोऽयं गाणपत्याख्यः
कथितस्ते मया प्रभो ॥३३॥ अनेन विधिना ज्ञानं गाणेशाख्यं भविष्यति । त्यक्त्वा पंचविधं चित्तं भव चिंतामणिः
प्रभो ॥३४॥ एवमुक्त्वा महादेवो विरराम च नारद । मया ते कथितं ज्ञानं गाणेशाख्यं महामुने ॥३५॥ अस्माकं पददाता
स ब्रह्मभूयप्रदस्तथा । गणेशः कुलदेवश्च तस्मात्तं प्रभजामहे ॥३६॥ मुद्गल उवाच । तं विष्णुं प्रणिपत्याऽथ नारदः प्रययौ
मुनिः । तपोवनं समासाद्य योगाभ्यासरतोऽभवत् ॥३७॥ गणेशं मनसा ध्यायञ्जपन् मंत्रमुत्तमम् । दशवर्षैः
प्रसन्नोऽभूद्गणेशस्तं ययौ मुनिम् ॥३८॥ तं दृष्ट्वा विस्मितोऽत्यंतं नारदः प्रणनाम च । कृतांजलिपुटो भूत्वा तुष्टाव गणपं
मुनिः ॥३९॥ नारद उवाच । नमामि गणनांथं तं सर्वविघ्नविनाशिनम् । वेदांतागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥४०॥
मनोवाणीविहीनं नो मनोवाणीमयं न च । ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥४१॥ त्वद्दर्शनेन हेरंब
कृतकृत्योऽहमंजसा । इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥४२॥ पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः ।
रोमांचितशरीरोऽसौ भावयुक्तो महामुनिः ॥४३॥ नमो नमो गणेशाय विघ्नराजाय ते नमः । भक्तानां विघ्नहंत्रे
चाभक्तानां विघ्नकारिणे ॥४४॥ अमेयमायया चैव संयुक्ताय नमो नमः । योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥४५॥
विनायकाय सर्वेश नमश्चिंतामणे नमः । अनंतमहिमाधार नमस्ते चंद्रमौलये ॥४६॥ एकदंताय देवाय मायिभ्यो मोहदाय ते ।
नमो नमः परेशाय परात्परतमाय ते ॥४७॥ निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे । महाखुवाहनायैव मूषकध्वजधारिणे
॥४८॥ अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुंढये । हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥४९॥ त्वद्दर्शनसुधापानाद्गतं मे भ्रांतिजं
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖