सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 1013, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 1013

खं. ९ अ. ३६ पान ८५
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
॥ श्रीगणेशाय नमः ॥ सूत उवाच । भार्गवः कपिलो नाम सर्वशास्त्रविशारदः । कपिलस्य वरेणैव समुत्पन्नः सुधर्मवित् ॥१॥
नानातपःसमायुक्तो योगनिष्ठो बभूव ह । तदर्थं शुनकं सोऽपि जगाम विनयान्वितः ॥२॥ तं प्रणम्य महात्मानं स्थित
आर्जवसंयुतः । कदाचित्ते महाभागं पप्रच्छ पितरं मुदा ॥३॥ कपिल उवाच । योगशांतिप्रदं नाथ वद ब्रह्मणि तन्मयम् ।
त्वं नो गुरुः समाख्यातस्तारयस्व भवार्णवत् ॥४॥ शौनक उवाच । विश्वानि विद्धि तं योगं ब्रह्मणि निःसृतानि च । यदाधारेण
वर्तंते ते गच्छंति यदात्मनि ॥५॥ तदेव योगदं ब्रह्म लंबोदरप्रवाचकम् । तस्योदरे स्थितं ब्रह्म विश्वं च भज तं सदा ॥६॥
तेन शांतिसमायुक्तो ब्रह्मीभूतो भविष्यसि । नान्यथा त्वं महाभाग सिद्धिबुद्धिविमोहितः ॥७॥ एवमुक्त्वा महायोगी
शुनको विरराम ह । तं प्रणम्य ययौ सोऽपि स्वाश्रमं हर्षसंयुतः ॥८॥ लंबोदरचरित्रं स मौद्गलस्थं जजाप ह । गणेशं
पूजयामास नित्यं भक्तिपरायणः ॥९॥ तेन तुष्टो गणाधीशो ददौ योगं सुशांतिदम् । कपिलाय स्वभक्ताय भक्तवात्सल्य-
कारणात् ॥१०॥ शांतियुक्तः स्वयं योगी तज्जजाप चरित्रकम् । नित्यं पूजापरो भूत्वा लंबोदरसमीपगः ॥११॥ तत्र चित्रं
कदाचिद्वै बभूव शृणु शौनक । बलीवर्दः स्थितः कश्चिद्रोगाक्रांतः पपात ह ॥१२॥ शुश्राव तच्चरित्रं स संपूर्णं ज्ञानहीनतः ।
सद्यो वै रोगनिर्मुक्तो बभूवे हर्षसंयुतः ॥१३॥ नाजानंस्तन् महत् पुण्यं बलीवर्दः कदाचन । कालेन स मृतस्तत्र ब्रह्मीभूतो
बभूव ह ॥१४॥ एवमज्ञानतो वाऽपि ज्ञानतो विविधा जनाः । ब्रह्मीभूता बभूवुश्च मया वक्तुं न शक्यते ॥१५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे लंबोदरचरितवर्णनं नाम पंचत्रिंशोऽध्यायः ॥
❧
॥ श्रीगणेशाय नमः ॥ सूत उवाच । अश्वत्थामा महाभागो द्रोणपुत्रः प्रतापवान् । कृपेण मातुलेनैव जगाम वनमुत्तमम् ॥१॥
भारते संस्थितं सारं ज्ञात्वा कृष्णमुखाच्च्युतम् । बुद्धेः परतरं ब्रह्माऽभवत्तत्रैव लालसः ॥२॥ बुद्धेः पत्युर्गणेशस्य हृदि ज्ञानं
कथं भवेत् । परिपूर्णं तदर्थं स गौतमं शरणं ययौ ॥३॥ कृपस्तं विनयेनैव प्रणम्याश्रमसंस्थितः । सेवार्थं भागिनेयेन
संयुक्तः परमार्थवित् ॥४॥ कदाचियोगिनां मध्ये गौतमः संस्थितोऽभवत् । कथयामास योगं स शांतिदं योगसेवया ॥५॥
तत्र हर्षेण संयुक्तोऽश्वत्थामा विनयान्वितः । पप्रच्छ कृपसंयुक्तः संशयस्यापनुत्तये ॥६॥ अश्वत्थामोवाच । योगप्राप्त्यर्थ-