सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 97, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 97

७ ] प्रथमाध्याये द्वितीयपादः ४५
विद्यमान एव योऽर्थो वाक्यस्य स्तुतिकार्या प्ररोचना, सोऽर्थोऽवगम्यते । अवगति-
शब्देन तत्कार्याङ्गीकारो लक्ष्यते । तेनाङ्गीक्रियते=अङ्गीकार्यं इत्यर्थः । इतरथार्थ-
वादाम्नानवैयर्थ्यादिति भावः । कोऽसौ सत्येव स्तुतिवचने विद्यमानोऽर्थस्तत्राह-
स्तुतिरिति । स्तुतिद्वारां प्ररोचनम्, तच्च तयोर्विधिस्तुतिपदयोर्द्वयोः, न त्वेकैकस्य ।
न च तन्मतेऽर्थवादस्यैव स्तुतिरर्थः इति कथं द्विवचनेन विध्युद्देशस्यापि सोऽभि-
धीयत इति अभिधातव्यं विधेरपि स्तुत्यसमर्पणेन स्तुतिहेतुतया तत्फलत्वात्
स्वयमेव स्तावकस्यैवानङ्गीकारादित्यभिसन्धिः । किमिति तर्हि विधेरेव
प्ररोचनायामपि सामर्थ्यं क्वचिदङ्गीकृतं तत्राह—तस्मिन्निति । अर्थवादाभावाद-
गत्या गौरवमप्यङ्गीकृतमित्याशयः ।
ननु यद्यप्यपौरुषेयत्वाद्वेदस्य नार्थवादाम्नाने पर्यनुयोगः, तथापि न तेभ्यः
प्ररोचना, किन्तु विधेरेवानर्थक्यं तु तेषामिष्टमेवेति मन्वानश्चोदयति—ननु
सत्स्वपीति । पूर्वस्य विध्युद्देशस्य वसन्ताय कपिञ्जला नित्यादिकेवलविधि-
सरूपत्वात्, तेनैव विधिसप्ररोचनोऽभिप्रेतः=प्रतिपादितः स्यादित्यर्थः । ततः
किम्, अत आह—न विवक्ष्यतेति । स्तुतिपदानां विधिपदेन संबन्धो विद्यमानोऽपि
नाभिप्रेयत इत्यर्थः । तर्हि साकाङ्क्षत्वात् स्तुतिपदान्यनर्थकानि स्युरिति
यथाश्रुतमादाय परिहरति—नेति । साकाङ्क्षाणीति हेत्वर्थं विशेषणम्, परः
स्वाभिप्रायं विवृणोति—भवन्त्विति । अध्ययनविधिदृष्टार्थत्वञ्चासंभवादनादेय-
मेवेति परिहरति—न गम्यमानइति । अविवक्षितेतिच्छेदः, विध्येकवाक्यतया
स्तुतिलक्षणया प्ररोचनमर्थवादानांर्थः । नासावसतिबाधकेऽपहेय इत्यर्थः ।
ननु निरपेक्षस्य विधेः क्वचित्पर्यवसानदर्शनं वाधकमन आह—योऽसाविति ।
विधातुम्=सप्ररोचनविधौ पर्यवसातुम्—वाक्यशेषं भवितुम्, स्तुत्यप्रतिपादनेन
स्तावकवाक्यानां शेषीभवितुन्, अत उभयासम्भवान्न निरपेक्षविधिपर्यवसानदर्शनं
बाधकमित्यभिप्रायः ।
ननूभयथा संभवमात्रेण कथं प्रकृते वाक्यशेषभावस्तत्राह--प्रत्यक्षश्चेति ।
उक्तमेतद् भूतिकाम आलभेत कस्मादित्यादिनेति भावः । उपसंहरति--अतइति ।
विधेरिति षष्ठी, विधिसंवन्धितोऽस्माद्वाक्यशेषादेव स्तुतिमवगच्छामः, न
विधेरेवेत्यर्थः ।
स्यान्मतम्, यथार्थवादार्थो गम्यमानत्वान्नापहेयः तथाविधेरपि निरपेक्षस्यैव
क्वचित्पर्यवसानदर्शनात् तदपि नापहेयम्, ततश्च सार्थवादेऽपि विधौ निरपेक्षस्यैव
पर्यवसानं युक्तमिति चोदयति--नन्विति । विधिं सप्ररोचनमिति यावत्
दूषयति--भवन्त्विति । यद्यपि यथादर्शनं केवलस्य विधेः पर्यवसानमवगम्यते,
तथापि स्तुतिपदसंबन्धे सत्यवगम्यमानार्थवादार्थपरित्यागप्रसङ्गात् न केवलस्यैव
पर्यवसानमित्यर्थः । विध्यर्थः सप्ररोचनः कुतोऽशक्य इत्याशङ्क्य गौरवं नाम