सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 95, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 95

७ ] प्रथमाध्याये द्वितीयपादः ४३
विधेः प्रतिबद्धशक्तित्वेन प्रवर्तकत्वासम्भवात्, तदुत्पत्तेश्च प्राशस्त्यज्ञानाधीनत्वा-
द्युक्तमेकवाक्यत्वमिति परिहरति-पदानामिति। विधेः स्तुतेश्च साकाङ्क्षत्वा-
द्विविधिस्तुतिपदानामेकवाक्यत्वमिति सम्बन्धः। विधेः स्तुत्याकाङ्क्षामभि-
नयति-भूतीति।
ननु विधिभावनायाः इतिकर्त्तव्यतापेक्षा कथमित्येवंरूपा स्यादर्थभावनाया
इव तत्र कथं कस्मादित्याकाङ्क्षा दर्शिता, नैष दोषः इतिकर्त्तव्यताविषयैवा-
काङ्क्षा यदा भावनासंबन्धितया निरूप्यते, तदा कथमित्येवंरूपा। यदा तु
प्रवर्त्तितव्यं मयेति प्रतिपुरुषसंबन्धितया निरूप्यते, तदा कस्मादित्येवंरूपा
तत्राकाङ्क्षायाः पुरुषधर्मत्वेन भावनायामुपचरितत्वान्मुख्यामेव पुरुषापेक्षा-
माश्रित्य-कस्मादित्युक्तमिति। तत इति। यस्मात् क्षैप्रगुणकवायुदैवतसाध्यं
कर्मक्षिप्रफलदत्वात् प्रशस्तमित्यर्थः।
ननु यद्यपि विधेः प्ररोचनापेक्षया प्रवर्तकत्वम्, तथापि न स्तावकापेक्षा
विधेरेव प्राशस्त्यज्ञापनद्वारा प्ररोचनायामपि व्यापारोपपत्तेरत आह-नाय-
मिति। भूतिकाम आलभेत कस्मात् ? यतो वायुर्वैक्षेपिष्ठा देवतेत्यनेन योऽयं
विधिस्तुतिसंबन्धः सार्थवादस्य विध्युद्देशस्यार्थो दर्शितः। नायं भूतिकामेना-
लब्धव्यमित्यनेन विध्युद्देशमात्रेण विवक्षित इति संबन्धः-कथं तर्हीति। केन
तर्ह्ययं विवक्षित इत्यर्थः, उत्तरमालभेतेति मध्यप्रतीकेन समस्तो विध्युद्देशोऽ-
भिमतः-तत इति। पूर्ववाक्यप्रकृतवायूपरामर्शः तेन च क्षैप्रगुणयुक्तस्य वायोः
क्षिप्रमेव फलप्रापकत्वप्रतिपादकत्वम्, स एवैनं भूतिं गमयतीत्येतदन्तं वाक्य-
मुपलक्षितम्। तेनायमर्थः सार्थवादेन विध्युद्देशेनायमभिसंबन्धो विवक्षितः-
न केवले नेति।
ननु केवलस्यैव विध्युद्देशस्य कर्त्तव्यतारूपविधौ प्राशस्त्ये च व्यापारः किं
न स्यादत आह-भिन्नाविति। यद्यपि प्रशस्तत्वात् कर्त्तव्योऽयमालम्भ इति
विध्युद्देशेन प्रतिपादनेन वाक्यभेदोऽर्थैकत्वात्, तथापि केवलविशेष्यपरत्वसंभवे-
ऽपि शिशिष्टपरत्वकल्पने गौरवापरपर्यायवाक्यभेदप्रसङ्गः तदवस्थ एवेत्यर्थः,
यद्यपि विधिस्तुतिरूपार्थद्वयप्रतिपादनं विध्युद्देशमात्रेण न क्रियते, तथाप्यर्थ-
वादानर्थक्यम्। तथाहि-प्रवृत्तिप्रतिबन्धकालस्यादिविरोधिरूपा प्ररोचनैव
विधेरितिकर्तव्यता, न स्तुतिः, तयैव हि स्तुतिराकाङ्क्ष्यते। तत्र च विनैव
प्ररोचनां विध्यवगतश्रेयस्साधनभावादेव प्रवृत्तिहेत्विच्छोत्पादनेन तद्विरोध्या-
लस्यादिनिराससिद्धेः स्तुत्यानर्थक्यादर्थवादानर्थक्यमिति चोदयति-किमर्थेति।
परिहरति-कथमिति।
ननु रुचिरेव कर्मण्यनर्थिका तत्राह-तत इति। विध्यवगतश्रेयस्साधनत्व-
बलादालस्यनिवृत्तावपि बहुव्ययायासदर्शनाद् द्वेषोत्पत्तेः स्तुतिसाध्यप्ररोचना-