मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 90, कुल 804 में से
संदर्भ में पढ़ें३८ मीमांसादर्शनम् [ सू०
भा० वि०] स्वार्थपरत्वेऽर्थवादानां पौरुषेयत्वमपि स्यादित्याह—अनित्येति ।
'बबरः प्रावाहणिरकामयते' त्याद्युदाहरणेऽनित्यसंयोगसूत्रं योजयति—अनित्येति ।
अनित्यसंयोगश्च स्वार्थपरत्वे प्रसज्येतेति शेषः । पूर्वपक्षे स्वार्थस्यैवाभावेना-
नित्यसंयोगाभावात् अन्यानर्थक्याभागिप्रतिषेधसूत्रयोरपि स्वार्थपरत्वेऽन्यानर्थ-
क्याभागिप्रतिषेधप्रसङ्गवदिति योजना प्रष्टव्या । चशब्दादक्रियार्थत्वेनार्थक्य-
मित्याद्यसूत्रं योजितम् ।
ननु वेदाधिकरण एव 'परं तु श्रुतिमान्यमात्रमिति' सूत्रेण बबरादिशब्दानां
नित्यसिद्धवाय्वाद्यर्थाभिधायित्वस्योक्तत्वात् स्वार्थपरत्वेऽपि, नानित्यसंयोगप्रसङ्ग
इत्याशङ्क्याह—वेदप्रामाण्ये सतीति । तत्र हि समस्तवेदप्रामाण्याभ्युपगमेन
नित्यसिद्धवाय्वाद्यर्थत्वं प्रतिपादितम्, यदा त्वर्थवादानां क्रियातच्छेषार्थत्वा-
भावेन प्रामाण्यमाक्षिप्तम्, तदा वायुर्वे क्षेपिष्ठेत्यादीनामिव नित्यार्थानामप्य-
प्रामाण्येन स्वार्थपरित्यागकारणाभावात् स्वार्थपरत्वे बबरादिवाक्यानामनित्य-
संयोगप्रसङ्गस्योपोद्वलकस्योत्थानं युक्तमित्यर्थः । न चाध्ययनविधिवलात् सर्वस्य
पुरुषार्थांपयिकत्वावगतेः कथमर्थवादानामार्नथक्यं शङ्क्यत इति आशङ्कनीयम् ।
अदृष्टार्थत्वेऽपि पुरुणार्थोपपत्तेः, अध्ययनविधैरेकान्ततोऽर्थपरत्वानाक्षेपकत्वादिति-
भावः ॥ ६ ॥
( इति पूर्वपक्षः )
तं० वा०] सर्वोपाख्यानेष्वन्यपरत्वासंभवात्स्वरूपप्रतिपादनादनित्यसंयोगः ।
स च समस्तवेदप्रामाण्ये सति कथंचिदन्यथा नीयेत । यदा तु यथैव प्रमाणानां मध्ये
शब्दः, तत्रापि च वेदः प्रमाणम्, तथैव वेदेऽपि विधिमात्रं युक्त्या कल्प्यते, तदेत-
रैकदेशवदनित्यार्थकदेशप्रामाण्यं यथाश्रुतार्थग्रहणादापन्नं किं निवार्येत । तस्मा-
देवमादीनामनपेक्ष्यार्थमध्ययनमात्रादेव फलं कल्प्यम् । अथ वा यथैतान्युपेक्षा-
फलानि, तथा तद्विषयं प्रत्यक्षमपि प्रतिपत्तव्यम् । अथ कस्मान्मन्त्रवद्यथाप्रकरणं
प्रयोगकाले न प्रयुज्यते, प्रयोगरूपसामर्थ्याभावात् । न हि मन्त्राणां पाठमात्रेण
विनियोगः, किं तर्हि तत्सामर्थ्यात् । न चात्र तदस्ति । अथ वा यथा तेषां
पूर्वपक्षे कार्यान्तराभापादृपमात्रं ग्रहीष्यते, तथाऽत्राप्यस्तु । यत्तु सूत्रकारेणा-
नित्यत्वमुक्तम्, तत्प्रामाण्यापेक्षया नाप्रयोज्यतया ॥ ६ ॥
न्या० सु०] नन्वतः परं स्वार्थेनैवानर्थक्यं प्रतिपादयतीति वार्त्तिककृद्वचनात्स्वार्थसत्यत्व-
रूपानर्थक्यप्रतिज्ञायामग्रं हेतुर्गम्यते तच्च विरुद्धम् । अनित्यो ह्यत्र प्रवाहणापत्यं बबरः
स्वार्थः प्रतीयते तत्रासत्यत्वे सति अनित्यसंयोग एव न स्यात् । न१ चानित्यसंयोगेनानित्य-
१. यदा स्वार्थासत्यत्वरूपानर्थक्यप्रतिज्ञा तदा बबरादीनामनित्यानामर्थानामभाव इत्य-
मिप्रायेणाह—नचेति ।