मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 771, कुल 804 में से
संदर्भ में पढ़ें३४-३५ ] प्रथमाध्याये तृतीयपादः ७१७
विशेषः कारणमिति सूत्रयोजना द्रष्टव्या । उक्तेनैवागृहीतविशेषणन्यायेन गुण-
क्रियादिशब्दानां तद्वाचित्वमपि सिद्धं कृत्वोपसंहरति--तस्मादिति । एवं प्रस-
ङ्गागतं पदानामाकृत्यर्थविचारं परिसमाप्य, प्रकृतं स्मृत्याचारोपस्थापितश्रुति
प्रामाण्यमुपसंहरति--इतीति ॥ ३५ ॥
॥ इति श्रीमन्नारायणामृतपूज्यपादशिष्यश्रीगोविन्दामृतमुनिविरचिते शाबर-
भाष्यविवरणे प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥
त० वा०-ये त्वाऽऽलम्भनादिचोदनाभावादयो 'न क्रिया स्यात्' इत्येत-
त्सूत्रानुभाषिताः पूर्वपक्षोक्ता हेतवः तेषां सर्वेषामनेन सूत्रेण परिहारोऽभि-
धीयते--
अविभागादित्यस्य चतुर्धा व्याख्यानम्
'तदर्थत्वात्प्रयोगस्याविभागः' इति । तदर्थत्वात्--अपूर्वार्थत्वाद्धालम्भनप्रोक्ष-
णाद्यङ्गानामपूर्वसाधने प्रयोगेन भवितव्यम्, द्रव्यं चापूर्वसाधनम्, यागेन स्वसि-
द्ध्यर्थमाक्षिप्तत्वात्, नाऽऽकृतिः समर्थत्वात्, तदभिधानं तु द्रव्यनियमार्थं प्रति-
पत्तव्यम्, न स्वार्थम् । जातेरनपेक्षितत्वाददृष्टार्थत्वप्रसङ्गात्साधनत्वाप्रतीतेश्च ।
यदपि जातेः प्रातिपदिकाभिहितायाः करणत्वं प्रतीयते, तदपि द्रव्यनियाम-
कत्वेनैव, न साक्षादयो ग्यत्वात् । तेनाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वाद्
द्रव्ये वाऽऽलम्भनप्रोक्षणसंख्याकार कसामानाधिकरण्यादिसंभवाददृष्टता । तदाह-
प्रयोगस्याविभाग इत्याकृतिपक्षेऽप्या लम्भनादिप्रयोगस्य द्रव्यादविभक्ततैवेति ।
अथवाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वा दुक्तवत्प्रयोगस्याविभाग इति ।
यद्वा । आकृतिव्यक्त्योरत्यन्तभेदा भावात्कदाचिद् व्यक्तिरूपेण द्रव्यमभि-
धीयते, कदाचित्सामान्यरूपेण यथा--विवक्षितम् । तथा--शब्दस्योभयरूप-
वस्त्वर्थत्वाद् व्यक्त्यभिधानेऽपि न प्रयोगस्य विभागः नानारूपतेति । जातेर्वा
व्यक्तितोऽत्यन्तभेदाभावाद्, व्यक्तौ कृता धर्मा जातौ कृता एव भवन्तीति, न
प्रयोगस्य विभागेन प्रयोजनमिति ।-
यद्वा । आकृतिव्यक्त्योरुभयोर्यागार्थत्वाद्धर्माणां च यत्र क्वचन यागसाधने
कृतानां प्रयोजनवत्त्वादद्रव्यादविभक्तेति ।
तस्मादाकृतिपक्षेऽप्या लम्भनादिसंभवादाकृतिरेव शब्दार्थ इति सिद्धम् ॥३४-३५॥
(इति आकृत्यधिकरणम् ॥ ९ ॥)
॥ इति श्रीभट्टकुमारिलस्वामिकृतौ मीमांसावार्तिके
प्रथमस्याध्यायस्य तृतीयः पादः ॥