सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 755, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 755

३३ ] प्रथमाध्याये तृतीयपादः ७०१
प्रकृतिविचारमनुसन्धत्ते—यद्वा चेति । अतोऽधुना क्रियत इत्यध्याहारेण योज्यम् ।
पक्षान्तराणामप्यभिधानं प्रतिजानाति—बहव इति । अभिनवे पक्षे केनचिदुपन्यस्ते
निराकरणोपपत्त्या ज्ञानाच्छिष्याणां व्यामोहापत्तेः तन्निवृत्त्यर्थं सर्वैऽभिधेया इत्यर्थः । बहु-
पक्षप्रतिभाने कारणमाह—गौरिति । शब्दस्वरूपस्य प्रत्यक्षग्राह्यत्वेन तद्विषयाभिधान-
शक्तिकल्पनानुपपत्तेर्नव्यानभिधानो हिंशब्दः कश्चित्कदाचनेति शून्यवादे वृहट्टीकायां
स्वरूपाभिधानस्य निरस्तत्वाच्छब्दवाच्यत्वशङ्कानुपपत्ति—सूचनार्थं तद्युक्तम् । सहवस्तु-
प्रतिभानेऽपि कथं बहुपक्षप्रतिभानमित्याह—तेषामिति ।
पक्षानुद्दिशति—किं जातिरेवेति । जातिव्यक्त्योः सामानाधिकरण्यबुद्धिहेतुभूतस्य ।
'आश्रयी येन भिन्नोऽपि सम्बन्धेनाऽऽश्रये धियम् ।
स्वानुरूपां सदा कुर्यात्समवायः स कीर्त्यते ॥'
इत्येवं लक्षणसमवायाख्यस्य सम्बन्धस्य जात्या सहाधाराधेयसम्बन्धसद्भावाज्जाति-
सम्बन्धयोः सच्छब्दवचः सम्बन्धः शब्दार्थ इत्यस्यापि पक्षस्योपपत्तेर्वस्तुगतस्य जात्या-
ख्याया अनुवृत्ताकारस्य, व्यावृत्ताकारस्य च व्यक्तित्वेनाभिप्रेतस्यैव वस्तुगतत्वादेकदेश-
स्थवृक्षवद्यः समुदायस्तस्याकारद्वयाकारद्वयाधारे धर्मिभूते वस्तुनि प्रतीतेः तदाश्रितया
जात्या सहैकवस्तुगतत्वादेव समुदायोपपत्तेः । सर्वत्राऽष्टपक्षीसम्भवः ।
यथा जातेर्व्यक्त्यादिभि षड्भिः सह प्रत्येकमष्टौ पक्षाः कृताः । तथा व्यक्तादेरप्ये-
कैकस्येतरैः सह कार्या इत्याह-एवमेकैकस्येति । ननु व्यक्त्यादिभिः सह सम्प्रधारितया जात्या
सह व्यक्त्यादेः सम्प्रधारणे पक्षभेदो नास्तीत्याशङ्क्य—उक्तवदित्युक्तम् । (एकाद्वित्रिचतुः-
पञ्चषट्कैः सह विकल्पने) त्युक्तद्विकादिप्रकारभेदात्पक्षाविवेक इत्याशयः । ततश्च व्यक्ति-
सम्बन्धः व्यक्तिसमुदाययोर्व्यक्तिलिङ्गयोः, व्यक्तिकारकयोः, व्यक्तिसंख्ययोः, सम्बन्धसमु-
दाययोः, सम्बन्धलिङ्गयोः, सम्बन्धकारकयोः, सम्बन्धसंख्ययोः, समुदायलिङ्गयोः, समुदाय-
कारकयोः, समुदायसंख्योलिङ्गकारकयोः, लिङ्गसंख्ययोः, कारकसंख्ययोः, पञ्चदशाऽष्टपक्षीः
पूर्वाभिः षड्भिः सहैकविंशतिं कृत्वा ।
१. जातेर्व्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसङ्ख्यासम्बन्धसमु-
दायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यासमुदायलिङ्गसमुदायकारकसमुदायसंख्यालिङ्ग-
कारकलिसंख्याकरसंख्याद्विकैः पञ्चदश ।
व्यक्तेर्जाति-सम्बन्ध-जातिसमुदाय-जातिलिङ्ग-जातिकारक-जातिसंख्या-सम्बन्धसमु-
दायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यासमुदायलिङ्गसमुदायकारकसमुदायसंख्यालिङ्ग-
संख्याकारकसख्याद्विकैः पञ्चदशसम्बन्धस्य जातिव्यक्तिजातिसमुदाय-जातिलिङ्गजाति-
कारक-जातिसंख्याव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारक-व्यक्तिसंख्यासमुदायलिङ्गसमुदाय-
कारकसमुदायसंख्यालिङ्गकारकलिसंख्याकारकसख्याद्विकैः पञ्चदश ।