मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 722, कुल 804 में से
संदर्भ में पढ़ें६६८ · मीमांसादर्शनम् [ सू०
श्येनचित् तं चयनेन भावयेत् इति सादृश्यार्थत्वस्यावश्याश्रयणीयत्वात् आश्रय-
णीयाकृतिवचनतेत्याह—स आकृतिवचनत्व इति । तच्छब्द कर्मभूतश्येनविषयः ।
एवं सूत्राक्षरार्थमुक्त्वेदानीं तात्पर्यार्थं दर्शयितुमाक्षिपति—तावदुभयत्रेति ।
असंभव इति च्छेदः । व्यपदेशं विशदयति—नाकृतिरिति । व्यक्तिवादिना आकृतौ
शब्दार्थे व्रीहीन् प्रोक्षतीत्यत्र क्रियाया असंभवमात्रं व्यपदिश्यते । न तु श्येनचितं
चिन्वीतेत्यत्र व्यक्तौ क्रियासंभवोऽपि, आकृतिवादिनापि चिन्वीतेत्यत्र व्यक्तौ
क्रियाया असंभवमात्रम्, न तु प्रोक्षतीत्याकृतौ तत्संभवः, तेनोभयपक्षान्निर्णयः
इत्यर्थः । सिद्धान्त्यभिमतं स्वपक्षे विशेषमनुवदति--यदप्युच्येत इति । सर्वत्रा-
कृतिश्शब्दार्थः । व्रीहीन् प्रोक्षतीत्यत्र क्रियान्वययोग्यव्यक्तिलक्षणेति नाकृतिपक्षे
काचिदनुपपत्तिरित्यर्थः, सर्वत्र व्यक्तिरेव शब्दार्थः, चयनवाक्ये तु कार्यान्वय-
योग्याकृतिलक्षणेति पूर्वपक्षिणा शक्यं वदितुमित्याक्षेप्ता दूषयति-शक्यमत्रापीति ।
ननु तथाप्यन्यतरेणोपपत्तिमन्तरेण भाव्यमित्याशङ्कय व्यक्तिपक्ष एवोपपत्त्य-
तिशयं सूचयितुमाह—किं पुनरिति । आलम्भनप्रोक्षणादिवाक्यानां बहुतवाच्चये-
नवाक्यस्य चैकत्वात् बहुनुरोधेन चैकत्र लक्षणाश्रयणस्य न्याय्यत्वात् सङ्ख्या-
कारकान्वयसंभवाच्च व्यक्तिपक्ष एव ज्यायानित्यर्थः ।
एवमुपपत्तिमत्तरत्वेनाक्षेप्तृपूर्वपक्षे पर्यवसायिते तुशब्दसूचितमाकृतिपक्षस्यै-
वोपपत्तिमत्तरत्वमादर्शयन् सिद्धान्ती परिहरति—आकृतिरिति । ज्याय इत्य-
नुषङ्गः गामानयेत्युक्ते प्रथमं सामान्याकारप्रत्ययोदयात् विचित्रव्यक्तिबुद्ध्य-
नुदयाद् व्यक्तीनां यथारुचि परिग्रहात् संबन्धग्रहणासंभवाच्च सर्वव्यक्त्यर्थत्वा
संभवादाकृतिरेव शब्दार्थ इति भावः । अस्तु तर्ह्यैका व्यक्तिरभिधेयेति तत्राह—
यदीति । व्यक्त्यन्तरेऽभिधेयरूपस्याभावादिति भावः ।
ननु केनचित्सामान्येन व्यक्त्यन्तरे प्रयोगो भविष्यतीत्याशङ्कयाह—अथेत्या-
दिना । कुत इत्यत आह—सर्वेति । सर्वसामान्यविशेषेभ्यो वियुक्ता विभक्ता
व्यतिरिक्तेति यावत्, असाधारणरूपत्वाद् व्यक्तेरिति भावः ।
ननु यथैका व्यक्तिस्सर्वसामान्यविशेषाद् व्यतिरिक्ता, तथा अपरापि, तेन तत
एव सादृश्याद् व्यक्त्यन्तरे वर्तिष्यत इति शङ्कते—नैष दोष इति । उत्तरम्—
यदीति । यदि व्यक्त्यन्तरमपि सामान्यविशेषव्यतिरिक्तम् । तदा सामान्यमेवानु-
वृत्तत्वात् सामान्याविशेषव्यतिरिक्तत्वं नामेति तस्यैवाभिधेयत्वप्रसङ्ग इत्यर्थः ।
शङ्कते—नेत्युच्यत इति । इतिरेवंशब्दपर्यायः । नैव व्यक्त्यन्तरे सामान्यविशेष-
विनिर्मुक्तत्वं निमित्तीकृत्य शब्दः प्रवर्तते इति एवं मयोच्यत इत्यर्थः । कथं