मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 684, कुल 804 में से
संदर्भ में पढ़ें६३० मीमांसादर्शनम् [ सू०
न चैकस्यां व्यक्तौ ये समुदिता दृष्टाः त एव व्यक्त्यन्तरेऽप्यन्यूनतानतिरिक्ता
दृश्यन्ते । य एवादृष्टपूर्वस्तस्मिन्समुदाये संप्रति दृश्यते, स एवासाधारणतामापाद-
यति । अनन्तभेदास्वपि व्यक्तिषु नात्यन्तापूर्वविशेषणोपलक्षणोपादानं किंचिदु-
त्कर्षापकर्षमात्रेण च सर्वत्रासाधारणोपलक्षणलाभात्परसामान्यापेक्षया च सर्वाण्ये-
वावान्तरसामान्यानि विशेषव्यपदेशं प्राप्नुवन्ति । संघातावस्थायां च व्यक्तिविशे-
षणत्वात्तेषु विशेषशब्दः । एतच्च व्यक्तेर्विशेषाणामन्यत्वमुपरिष्टाद्भाष्यकारोऽपि
वक्ष्यत्येव, 'योऽर्थः सामान्यस्य विशेषाणां चाऽऽश्रयः, सा व्यक्तिरिति ।
भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्यानुवादः
तत्र 'केचिद् गोत्वादिषु विशेषत्वमङ्गीकृत्य सामान्यवाचिना शब्देनाऽनाभिधे-
यत्वाद्यदेव महासामान्यं सत्ता-वस्तु-भावशब्दाभिधेयम्, तदेव शब्दस्वरूपव्यवच्छिन्नं
वा गोसत्ताख्यमाकृत्यभिधानपक्षे वाच्यमिति मन्यन्ते ।
यथाऽऽहुः—अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् ।
अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ॥ इति ९६९ (वा. का. श्लो.)
तन्निरासः
तत्तु कक्ष्याविभागेन² सामान्यानां निरूपणात् ।
अयुक्तं न गवादीनां तत्र वाचकशक्तता ॥ ९७०
प्रतिनियतार्थविषया हि शब्दानां वाचकशक्तिरर्थापत्त्या गम्यते । तत्रानन्ता-
वान्तरसामान्यवचनानां द्रव्य-गुण-कर्मशब्दानामेव तावदसंकीर्णार्थत्वात्सत्तार्थत्व-
मनुपपन्नम्, किमुत दूरान्तरितार्थगवादिशब्दानाम् ।
सत्तामेते वदन्तश्च न शुद्धां सविशेषणाम् ।
वदन्तीत्यभिधातुं हि शक्यं द्वेधाऽप्यसंभवात् ॥ ९७१
शुद्धवचनत्वे तावत्सर्वेषामेकार्थप्रत्यायनात्पर्यायत्वप्रसङ्गः । पुनरुक्तवाच्चा-
स्तिशब्दप्रयोगानुपपत्तिः ।
गौनास्तीति प्रयोगश्च विरोधान्नावकल्पते ।
न हि सत्तैव नास्तीति कथंचित्संप्रतीयते ॥ ९७२
१. कक्ष्याशब्दः कोष्ठवाचां, द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावान्तरसामान्यकक्ष्यायां
पृथिवीत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायां रूपत्वादीनि गुणत्वावान्तरसामान्य-
कक्ष्यायां च वर्तन्त इति कक्ष्याविभागो ज्ञेयः ।
२. जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यति इति निरुक्तोक्ताः षड् भावविकारा
ज्ञेयाः । अत्र च योऽस्तिशब्देन द्वितीयो भावविकार उच्यते स एव सत्तेत्येतद्युज्यत
इत्यर्थः ।