मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 677, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपादः ६२३
ननु य एवमाकृतिस्स गौरिति प्रतीतावाकृतेः पूर्वं भानात्, तस्या एव
शब्दार्थत्वम्, न तद्विशिष्टव्यक्तेरित्यत आह— यथेति । न हि सत्यामपि न तद्वचनो
गोशब्दः, किन्तु विशिष्टवचन इत्यर्थः । तथा चात्र केवला, विशिष्टा वा
व्यक्तिश्शब्दार्थ इति पूर्वपक्षौ द्वावभिमती इत्यवधेयम् ॥ ३० ॥
अथ नवममाकृत्यधिकरणम्
त० वा०—इह नाख्यातोपसर्गनिपातानां मध्यान्नामानि परिगृह्यन्ते । तेषा-
मपि जाति-गुण-क्रिया-द्रव्य-यदृच्छा-सर्वनामशब्दानां मध्याज्जातिशब्दाश्चि-
न्त्यन्ते । तेषामप्येकं गोशब्दमुदाहृत्य विचार्यते किं पुनरयमाकृतेर्वाचकः, अथ
व्यक्तेरिति । ततः ।
( लोकवेदाधिकरणम् )
एतत्सान्त्यासिकं कृत्वा वक्ष्यमाणं तु सांप्रतम् ।
उपायफलसिद्ध्यर्थमिदं तावद्विचाय्यते ॥ ९२३
किं य एव लौकिकाः शब्दाः त एव वैदिकाः त एव चैषामर्था उतान्य इति ।
आह— ( शङ्का )
किं लोकवेदशब्दानामेकत्वप्रतिपादने ।
प्रयोजनं यतः पूर्वं तावत्तत्प्रतिपाद्यते ॥ ९२४
उच्यते— ( समाधानम् )
फलमस्य विचारस्य वैदिकेषु भविष्यति ।
लोके च निर्णयोपायस्तेनैकत्वाय यत्यते ॥ ९२५
यदि शब्दार्थानामनन्यत्वं लोकवेदयोर्भवेत् । तत् एतस्या व्यक्त्याकृत्यभि-
धानचिन्ताया वृद्धव्यवहारस्थानेकप्रयोगानुसरणद्वारेणाभिधेयानभिधेयत्वनिर्णयः
शक्यते कर्तुम् ।
प्रयोजनं तु लोकस्य न किंचिदपि सिध्यति ।
आकृतिव्यक्तिवाच्यत्वपरमार्थनिरूपणात् ॥ ९२६
संमूर्च्छितानेकार्थसंनिधाने हि शब्द प्रयुक्तः कियत्यप्यर्थजाते प्रत्ययं करोति ।
तेन चाविविक्ताभिधेयगम्यमानांशेनापि समस्तधर्मोपेतेन कार्यसिद्धौ क्रियमाणायां
प्रयुक्तः ।
यद्युच्यमानया कार्य यदि वा जातिगम्यया ।
समस्तं क्रियते व्यक्त्या को विवेकधियो गुणः ॥ ९२७
यद्युच्येतेहापि वेदवत्सामान्यविशेषलक्षणबाधसिद्धिरेव प्रयोजनमिति ।