सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 61, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 61

१ ] प्रथमाध्याये द्वितीयपादः ९
मध्य एकदेशाक्षेपः कतिपयानामित्यर्थः । तत्र यानि तावत्केवलविधियुक्तानि
तेषु नैवाऽऽशङ्का । यान्यपि लिङादिमन्ति प्रागर्थवादेभ्यो विधिसमर्थानि, तैः
संयुज्यार्थान्तरे स्तुतिस्तुत्यसम्बन्धे वर्तन्ते, तेषामर्थवादाभावे तन्मात्रमेव हीयते ।
न तु विधित्वेन पुरुषार्थताऽपि । यानि तु वर्तमानापदेशयुक्तानि स्तुतिनिरपेक्ष-
विध्यसमर्थानि । यथा “यस्य खादिरः स्रुवो भवति, स च्छन्दसामेव रसेना-
वद्यति”१, इत्येवमादीनि । तान्येकदेशद्वारेण समस्तान्याक्षिप्यन्ते ॥१॥
सर्वानवद्यकारिणी न्यायसुधा
आनन्दात्मनि विश्ववैभवभवाविर्भावसम्भावितः ।
स्वेच्छाधीशसचिवः पुरन्दरपुरीशानः स्वयं खेलति ॥
तत्कारुण्यकटाक्षकुङ्मलकलाकान्तोदयाघूर्णितः ।
स्वात्मानन्दसुधाम्बुधिविजयते धीमान्महेन्द्रामृतः ॥ १ ॥
यद्यप्यूषरमुपेत्य गुरुणा बीजम्महेन्द्रामृतम् ।
क्षेत्रञ्चित्रमनेकधोरु फलति प्राप्यात्मनोऽनर्घ्यताम् ॥
यन्मेघस्रुतवाङ्निरन्तरसुधासारैः समासिञ्चितम् ।
सोऽयं सर्वसुहृज्जनार्दनजगज्जीयाज्जगन्मण्डनम् २ ॥ २ ॥
उमानन्दनमाराध्य शारदामीश्वरं गुरुम् ॥
कृत्स्नशास्त्रप्रसादेन व्याख्यास्ये तन्त्रवार्त्तिकम् ॥ ३ ॥
अत्र भाष्यकारेणार्थवादानुदाहृत्य किञ्चिद्धर्मं प्रमिमते, उत नेति विचारितम् ।
तदयुक्तम् । प्रथमपाद एव सर्वप्रामाण्यकारणनिरासेन सर्वात्मकवेदप्रामाण्यस्य सुस्था-
पितत्वात् । अथ साध्यसाधनेतिकर्त्तव्यतान्वितभावनाप्रतिपादकपदसमुदायमात्रेण श्रेयः-
साधनरूपधर्मप्रमितिसिद्धेः, तदतिरिक्तानां वायुक्षेपिष्ठादिपदानां धर्मप्रमितावनुपयोग-
माशङ्कय, उपयोगोऽत्रोच्यते । ततो विधिमन्त्रनामधेयान्यप्युदाह्रियेरन् । धर्मप्रमित्य-
नुत्पादकत्वेन चानुपयोगित्वे अर्थवादादेर्दोषाभावेऽपि प्रामाण्यायोगादयमेव विचारः
प्राग्भावी स्यात् । चोदनासूत्रप्रतिज्ञातप्रामाण्यस्य विधिभागस्य प्रसिद्धधर्मसंयोगस्य
परतः प्रामाण्यनिरासेन प्राक् प्रामाण्योक्तावर्थवादादिविचारोऽप्रतिज्ञातविषयत्वाद-
सङ्गतः स्यादित्याशङ्काचतुष्टयं निराकर्तुमाह-सिद्धप्रमाणभावस्येति । तत्रार्थवादार्पित-
प्राशस्त्यमन्त्रस्मारितनामधेयावच्छिन्नधात्वर्थानुरक्तभावनाविषयप्रवर्त्तकपरत्वेन चोदना-
शब्दस्य मन्त्रार्थवादाद्युपेतमहावाक्यविषयत्वान्नजिज्ञासासूत्रेण चाध्ययनविधिदृष्टार्थताप्रति-
पादनेन सकलवेदप्रामाण्योपक्षेपादौत्पत्तिकत्वादियुक्तिसाधारण्याच्च वेदमात्रप्रामाण्यस्य
प्रतिज्ञापरत्वेऽपि, यागेन स्वर्गमित्यादिसाध्यसाधनभावप्रतिपादकशब्दाभावेन धर्मप्रमित्य-
शक्तत्वादसम्भवदर्थविषयत्वमाशङ्कय धर्मप्रमितिशक्तिप्रदर्शनार्थत्वेन चोदनावत्सङ्कीर्त्तनो-
१. तै० सं० ३ । २. इमौ श्लोकौ २ पु० न भवतः ।