सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 60, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 60

८ : मीमांसादर्शनम् [ सू०
पुरुषाचरितोपन्यासद्वारा रोदनकर्तव्यतापरम् । अथ वा महतामप्येवंविधाः
प्रमादाः संभवन्ति, तस्मात्प्रयत्नेन वर्जयितव्यमिति । अतो विधिप्रतिषेधयोर-
स्फुटत्वादद्धर्माधर्मत्वेन निर्णये शक्त्यभावः । शास्त्रदृष्टविरोधादयश्च स्थिता एव ।
यत्तु भूतान्वाख्यानमात्रं यथावस्थितैः प्रतिपाद्यते, तत्र यद्यपि सत्यत्व-
मस्त्येव । तथाऽपि न तेन प्रयोजनमित्यानर्थक्यम् । अपि च 'धूम एवाग्नेर्दि-
वेत्यादीनां स्वार्थेऽप्यप्रामाण्यं वक्ष्यते । विध्येकवाक्यत्ववशेनैव तेषां रूपभङ्गः
क्रियते । न च तस्यापि किञ्चित्प्रमाणमस्ति । भिन्नैरपि हि तैः किञ्चित्प्रतिपाद-
यितुं शक्यमेव । न च तत्प्रतिपादयतां निष्प्रयोजनतेत्यविज्ञायमानप्रयोजन-
वदर्थान्तरकल्पना शक्या । न हि लोष्टं पश्यतस्तद्दर्शनं निष्प्रयोजनमिति,
सुवर्णदर्शनता कल्प्यते । सर्वाण्येव च प्रमाणान्युपयुज्यमानमनुपयुज्यमानं
वाऽर्थमात्मगोचरतापन्नं गमयन्ति । तेनैव चैषां हानोपादानोपेक्षाबुद्धयः फलत्वेन
वर्ण्यन्ते । अन्यथा ह्युपादानमेवैकं फलं स्यात् । अपि च प्रमाणोत्पत्त्युत्तरकालं
प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा विज्ञायते, न तु तद्वशेन प्रमाणोद्भूतिः । तस्माद्यो
यद्रूपोऽर्थः प्रतीयते, स तथैव प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा प्रतिपद्यते । न हि
प्रयोजनवदेव प्रमातव्यमिति कश्चिन्नियमहेतुरस्ति । यत्रापि तावत्स्वाधीनः
प्रमाणविनियोगः, तत्राप्येतद् दुर्लभं किमुताबुद्धिपूर्वनित्यावस्थितवेदोत्थापित-
ज्ञानग्राह्ये । न च वेदस्य प्रयोजनवदर्थाभिधानशक्तिः प्रथममवधृता । अयमेव हि
परीक्षाकालो वर्तते कीदृशं पुनर्ब्रवीतीति । तच्च विदित्वा यथानुरूपमनुष्ठातुं
क्षमा वयम्, न तु वेदं पर्यनुयोक्तुम्, किमयं निष्प्रयोजनमभिदधाति तद्वाऽभिद-
धत्किमर्थं प्रयत्नेन धार्यत इति । सर्वपुरुषाणां केवलं प्रतिपत्तृत्वेन पारतन्त्र्या-
द्वेदग्रहणोत्तरकालं च परीक्षावसरात् । न ह्यनधीतवेद एवाऽऽदौ परीक्षितुं क्षमः ।
पश्चात्परीक्षमाणस्य तु नाबुद्धिपूर्वनिर्वृत्तमध्ययनं प्रकरणगत्न्यायेन निश्चय-
हेतुर्भवति । तस्माद्यथैवाग्निहोत्रादिवाक्यानां गम्यमानप्रयोजनवत्त्वादानर्थक्यं
निष्प्रमाणकमिति नाऽऽश्रीयते, तथैवेषां प्रयोजनवत्त्वं नाऽऽश्रयितव्यम् । न हि
यथावगताभ्युपगमादन्यत्किञ्चित्साधीयः परोक्षकाणाम् । योऽपि च क्लेशेन
स्तुतिनिन्दात्मकोऽर्थः कल्प्येत, स भावनयाऽशक्याऽनन्तःपातित्वान्न गृह्यते ।
तया चागृहीतं न विधिप्रतिषेधावाश्रयतः । तदानाश्रितं च दूरे पुरुषार्था-
द्ध्रवतीति ।
अपि चैवंविधेषु स्तुतिनिन्दाकल्पनायामितरेतराश्रयप्रसङ्गः । स्तुतिनिन्दात्म-
कत्वेनैव ह्येकवाक्यता, तया चानुन्मीलितस्तुतिनिन्दोत्प्रेक्षाश्रयणम् । न चान्य-
तरमूलप्रसिद्धिरस्ति, यतो व्यवतिष्ठेत । तस्मात्पृथगवस्थितानां दृष्टवादानर्थक्य-
मेवोपपन्नतरमिति । स एष वाक्यैकदेशस्येति । विध्युद्देशातिरिक्तस्य सिद्धान्ता-
भिप्रायेणैकदेशत्वं न तु पूर्वपक्षे, भिन्नवाक्यत्वाभ्युपगमात् । अथ वा वाक्यानां