सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 589, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 589

२४ ] प्रथमाध्याये तृतीयपादः ५३५
रिक्तस्येन्द्रियलिङ्गादेः शब्दस्यापि वा वक्तृज्ञानविवक्षाविषयप्रत्यायकत्वं साधुत्वं कस्य-
चिदिष्टम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वम्, गाव्यादिशब्देष्वव्याप्तेः । न च शब्दस्य
शक्त्यार्थप्रतिपादकत्वं साधुत्वं गङ्गायां घोषोऽग्निर्मांणवक इत्यादौ गङ्गाग्निशब्दयोस्तीरमाण-
वकादिषु शक्त्यभावेऽपि तत्र साधुत्वप्रसिद्धार्थान्तरविषयशक्त्या अर्थान्तरविषयसाधुत्वाभ्युपगमे
गोणीशब्दस्याप्यावपनविषयशक्तिसद्भावात् सास्नादिमति साधुत्वापत्तिः । देवदत्तादिशब्दानां
च संस्कृतेनार्थप्रतिपादनम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वम्, गाव्यादिशब्देष्व-
व्याप्तेः । न च शब्दस्य शक्त्या अर्थप्रतिपादकानां शक्त्यभावादसाधुत्वापत्तिः । स्नुषादि-
शब्दानां पुत्रभार्यादिवाचिता पुत्राद्यनभिधाय तद्विशिष्टभार्याद्यभिधानशक्तेः पुत्रादौ शक्ति-
सद्भावादसाधुत्वापत्तिः । अर्थविषयानादिप्रयोगत्वे तु साधुत्वलक्षणे गाव्यादिशब्दानामपि
सास्नादिमदर्थविषयप्रयोगावध्यस्मरणानादित्वावगमात्साधुत्वमशक्यं निराकर्त्तुम्, स्वाभा-
विकार्थपरत्वमपि प्रतीतिप्रयोगाविशेषाद् गवादिशब्दवद्गाव्यादिशब्देष्वपि तुल्यम् । लक्षणानु-
गमोऽपि च सिद्धेऽनयानर्थक्यमाशङ्क्य चम्पतीत्यादिशब्देषु वृद्धप्रयुक्तत्वेनासाधुतयाऽभि-
मतेषु भावान्न साधुत्वलक्षणमिति न कथंचित् साधुत्वं निरूपयितुं शक्यम् अनेनैव
मार्गेणासाधुत्वमपि निराकार्यमिति । एतदेव विवृणोति—अविभक्ता हीति । अतश्चैको-
पलक्षणाभावात्सामान्यरूपेण साध्वसाधूनां विधिनिषेधविषयत्वानुपपत्तेः । व्यक्तिरूपेण
विधिनिषेधविषयत्वानुपपत्तेः । पूर्वोक्तमेव विधिनिषेधानन्त्यप्राप्तमित्युपसंहरति — तेनेति ।
ननूपलक्षणान्तरासम्भवेऽपि स्वाभाविकार्थपरत्वलक्षणसाधुत्वतद्विपर्ययलक्षणासाधुत्वोपल-
क्षणयोगेन विधिनिषेधविषयत्वं भविष्यतीत्याशङ्क्याह — न चेति । अर्थप्रत्यायनोद्देशेन
सर्वेषां प्रयोगदर्शनेनार्थप्रत्यायनार्थत्वावसायादर्थप्रत्यायनार्थत्वलक्षणस्य वाचकत्वस्या-
व्यावर्तकत्वाद्विपर्ययलक्षणस्य वा वाचकत्वस्यासत्त्वान्नोपलक्षणत्वं सम्भवतीत्याशयः ।
ननु गाव्यादिशब्दाव्यावर्त्तकत्वेऽपि प्रसिद्धावाचकत्वाद्भैर्यादिशब्दव्यावर्त्तकत्वाद्ववाच-
कत्वस्य विधेयशब्दोपलक्षणत्वोपपत्तेरवाचकत्वस्य निषेध्यभैर्यादिशब्दोपलक्षणतोपपत्तेस्तन्नि-
बन्धनौ विधिनिषेधौ भविष्यत इत्याशङ्क्याह—वाचकैरिति । प्राप्ताप्राप्ततया विधिनिषेध-
विषयत्वाभावे दृष्टान्तमाह—न हीति । द्रवद्रव्यमात्रोपलक्षणार्थमुदकग्रहणम् ।
ननु विधिनिषेधरूपश्रुतिमूलानपेक्षव्याकरणपरम्परामात्रेण साध्वसाधुविवेकसिद्धे विधि-
निषेधनिराकरणमनर्थकं मूलश्रुत्यपेक्षायामपि वा साध्वनुशासनात्मकत्वेन व्याकरणस्य
साधुविधिमात्रापेक्षत्वादसाधुनिषेधनिराकरणमनर्थकमित्याशङ्क्याह—अवश्यं चेति ।
निर्मूलत्वे अन्धपरम्परा न्यायापत्तेर्न साध्वसाधुविवेकसिद्धिरित्याशयः । साधुविधानेन,
असाधुवर्जनसिद्धेर साधुनिषेधेन वा साधुप्रयोगसिद्धेरुभयानर्थक्यमाशङ्क्य--संयोगेत्युक्तम् ।
विधेयेष्टसंयोगो विधेः फलम्, निषेध्यानिष्टसंयोगो निषेधस्येत्यर्थः । ननु उपलक्षणमूलत्वे
निषेधमूलसाध्वनुशासनं न युक्तमित्याशङ्क्याह—त्रिष्वपि चेति । साधूनामसाधुभ्योऽल्प-
त्वाद्व्यवस्थितत्वाच्च सौकर्यम् । एतदेव विवृणोति—यदीति । यथा पञ्चनखानाम्मध्ये
पञ्चैव शशादयो भक्ष्या इति नियमे कृते, ततोऽन्येषां श्वादीनामभक्ष्यत्वं गम्यते । तथा

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 589, कुल 804 में से · SarvaKosh