सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 58, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 58

६ . मीमांसादर्शनम् [ सू०
त्वादामरक्षणकर्त्तव्यताप्रतिपादकशास्त्रविरोधाच्च न विधानमित्याह—न
होति—दिङ्मोहस्य चापुन्तन्त्रत्वेन दृष्टविरुद्धत्वात् 'प्राङ्मुखोऽन्नानि भुञ्जीत'
इत्यादिशास्त्रविरोधाच्च न कर्तव्यमित्याह—न चेति ।
ननु माभूद्विधिकल्पना स्वार्थपर्यवसानमेवैषामस्तु, अथ वा किं विधिकल्पनया
प्रामाण्याभ्युपगमेन प्राशस्त्यादिलक्षणाद्वारेण स्वसन्निहितविध्येकवाक्यतया
धर्मप्रामाण्योपपत्तेरिति शङ्कां परिहरन्नुपसंहरति—अत इति । अतः क्रिया-
बोधनद्वारेण धर्माधर्मप्रमापकत्वाभावादेषामर्थवादानामानर्थक्यं निष्प्रयोजनत्व-
मेव युक्तमित्यर्थः ।
अयं भावः प्रयोजनवदर्थपर्यवसायित्वमध्ययनविधिपर्यालोचनया वेदमात्रस्य
भवताभ्युपगतमेव । न चार्थवादानां स्वार्थपर्यवसायिनां तद्युज्यते, तत्प्रतीत्या
प्रयोजनादर्शनात् । अतः प्राशस्त्यादिद्वारा विध्येकवाक्यत्वमेवैषां प्रामाण्य-
प्रयोजकमाश्रयितव्यम् न च तत्र प्रमाणमस्ति, न च प्राशस्त्यादिणक्षणणैवेक-
वाक्यत्वे प्रमाणम् सर्वत्रैकवाक्यताधीनत्वाल्लक्षणायाः तस्या अपि तदधीनत्वे
परस्पराश्रयदोषप्रसङ्गात् । न च प्रयोजनवदर्थविवोधपरत्वं वेदस्य प्रतिपाद-
यन्नध्ययनविधिरेवैकवाक्यत्वे प्रमाणमिति वाच्यम् । अध्ययनविधेरर्थवादशक्त्य-
नुसारित्वेन तदवगमितस्यैव विशिष्टस्यार्थस्योपेक्षादिफलवत्त्वकल्पनायामेव तस्य
सामर्थ्यादिति आनर्थक्यप्रतिपादनफलतया सूत्रशेषं व्याचष्टे—तस्मादिति ।
नन्वर्थवादेष्वप्यपौरुषेयत्वादिनित्यत्व हेतुसाम्यात् कथम नित्यत्वव्यपदेशः
तत्राह—यद्यपीति । तथापि नित्यानां चोदनानां यत्कार्यं धर्माधर्मप्रमितिलक्षणम्,
तन्न कुर्वन्तीति कृत्वा नित्या नित्यविलक्षणानि¹ अप्रमाणानीत्युच्येरन्नित्यर्थः ।
अन्यैर्वृत्तिकारैरिदं सूत्रं सर्ववेदप्रामाण्याक्षेपार्थं व्याख्यातम् ।
अर्थवादाप्रामाण्ये हि स्तुतिनिन्दादिलक्षणेतिकर्तव्यतांशाभावेन शब्दभावना-
संभवात् चोदनाप्रामाण्यस्याक्षिप्तत्वं स्यादिति तां निराकरोति—स एष इति ।
वाक्यस्यैकदेशो वाक्यैकदेशः, विध्युद्देशातिरिक्तस्य वेदभागस्येति यावत् ।
अर्थवादादीनामविशेषेण धर्मं प्रत्यनुपयोगस्यापि पूर्वपक्षिणोऽभिमतत्वम् ।
न चेह वाक्यभेदमङ्गीकृत्य पूर्वपक्षप्रतिपादनात् एकवाक्यत्वासंभवेन
वाक्यैकदेशत्वासंभवः, सिद्धान्त्यभिमतैकवाक्यत्वमाश्रित्यैकदेशत्वोक्त्यविरोधात् ।
यद्वा क्रय्योः, गौरियं हि सम्पन्नबहुक्षीरेत्यादौ कारकपदानाभिव स्तावक-
पदानामप्येकवाक्यत्वदर्शनात्, वेदेऽप्येकवाक्यत्वसंभवमाश्रित्य तस्य वेदे द्वारा-
भावेन निर्वाह मपश्यतः प्रत्यवस्थानात् पूर्वपक्षेप्येकवाक्यत्वमाश्रितमेवेति
न विरोधः ।
१. नित्यानित्यविलक्षणानीति मातृकायां पाठः ।