मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 56, कुल 804 में से
संदर्भ में पढ़ें४ मीमांसादर्शनम् [ सू०
भाष्यविवरणम्
यस्मादाविर्भूद्विश्वं यत्र च प्रविलीयते ।
तत्स्वतः सच्चिदानन्दं नमस्यामः परं महः ॥ १ ॥
प्रणमामि गणेशानं देवीं वाचं तथा गुरून् ।
यत्कृपालोकनादेव मनो मे शुद्धतामगात् ॥ २ ॥
श्रीमच्छाबरभाष्यस्य मया शिष्यहितैषिणा ।
कुमारिलोकभावस्य क्रियते विवृतिर्मया ॥ ३ ॥
अस्याधिकरणस्य विषयमाह--सोरोदीदित्यादिना । सङ्गतयस्त्वेवंद्रष्टव्याः-
अथातो धर्मजिज्ञासेति प्रमाणादिभिः धर्मे जिज्ञास्यतया प्रतिज्ञाते किं तत्र
प्रमाणमित्यपेक्षायां प्रथमेऽध्याये प्रमाणं निरूप्यते, तेनार्थवादादिप्रामाण्यनिरूप-
णस्यापि धर्मप्रमाणविचारत्वादस्त्यध्यायसङ्गतिः, पादसङ्गतिस्तु प्रथमे सूत्रे
समस्तस्य वेदस्य विवक्षितार्थतया प्रामाण्यप्रतिज्ञायां सत्यामपि अर्थवादादि-
प्रायाण्यस्य विधिप्रामाण्याधीनत्वात् विधिभागस्यैव धर्मे प्रामाण्यं प्रतिज्ञाय
प्रसाधितं प्रथमे पादे, अधुना धर्मप्रमितार्थवादादोनामुपयोगातद्विशेषाभावेना-
प्रामाण्यमाशङ्क्य, तत्प्रतिपादनेन प्रामाण्यं प्रतिपाद्यत इत्येवं मन्तव्याः ।
यद्वोत्तरसूत्रसन्दर्भपर्यालोचनया चोदनाशब्दस्य वेदमात्रपरत्वावगमात्
समस्तस्यैव वेदस्य धर्मे प्रामाण्यं चोदनासूत्रे प्रतिज्ञातम् । तच्च परतः प्रामाण्या-
दिनिषेधेन समस्तस्य विध्याद्यात्मनो वेदस्यापातप्रतिपन्नैकवाक्यताबलेना-
विवेचितावान्तरव्यापारं सामान्यतः प्रतिपादितम्, सम्प्रत्यर्थवादादीनामुपयोग-
मात्राभावेन प्रातिस्विकोपयोगाभावेन चाक्रियार्थत्वादाक्षिप्योपयोगातद्विशेष-
प्रतिपादनेन समाधीयत इति ।
वेदाधिकरणसङ्गतिस्तु चोदनानां प्रामाण्ये पदपदार्थसम्बन्धौत्पत्तिकत्वादिभिः
प्रतिपादितेऽनन्तराधिकरणेन वेदपौरुषेयतया तदवयवानां तासां पौरुषेयत्वेना
प्रामाण्यमाशङ्क्य, वेदापौरुषेयत्वप्रतिपादनेन चोदनानामपि तथात्वेन प्रामाण्ये
प्रतिपादिते वेदावयवत्वेन धर्मप्रमाणतया बुद्धिसमारूढानामर्थवादादीनां तत्र
प्रामाण्यमस्ति न वेति विचार्यते इति । अत्र चाद्येऽधिकरणे सर्वेषामेवार्थवादमन्त्र-
नामधेयानामक्रियार्थत्वेनानर्थक्यमाशङ्क्याध्ययनविधिपरिग्रहाविशेषात् सामा-
न्यतः क्रियार्थत्वं विधिना त्वेकवाक्यत्वात् इति सूत्रावयवेन प्रतिपाद्य,
विशेषतोऽर्थवादानां द्वारविशेषाभावेनाक्रियार्थत्वमाशङ्क्य द्वारविशेषः प्रति-
पाद्यते । न चैवं सत्यर्थवादमात्रोदाहरणसंभवः सामान्यविनियोगप्रतिपादन-
दशाया मन्त्रनामधेययोरुपलक्षणत्वात् विशेषविनियोगप्रतिपादनाभिप्रायेण च
तावन्मात्रोदाहरणं मन्त्रापेक्षया च प्रवृत्त्यङ्गत्वेन पदैकवाक्यत्वेन चार्थवादानां