मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 524, कुल 804 में से
संदर्भ में पढ़ें४७० मीमांसादर्शनम् [ सू०
रत्नधायितमत्वं च तन्नरैर्ज्ञायते कथम् ।
अविज्ञातगुणानां च कल्पते स्तवनं न तु ॥ ५९४
स्वतन्त्रो वेद एवैतत्केवलो वक्तुमर्हति ।
यजुर्वेदस्यापौरुषेयत्वे हेतुः
इषे त्वेत्ययमप्यर्थः पुरुषेणोच्यतां कथम् ॥ ५९५
शाखाच्छेदोपयोगश्च पुंभिरुत्प्रेक्ष्यतां कुतः ।
एवमूर्जेत्ययं मन्त्रः केन शाखानुमार्जने ॥ ५९६
वक्तुं शक्यो नियोक्तुं वा बुद्धिपूर्वककारिणाम् ।
वायवः स्थेत्ययं मन्त्रो वत्सापाकरणं प्रति ॥ ५२७
एकशो विनियोक्तव्य इति कः कथयिष्यति ।
वायुशब्देन बहुवचनान्तेन मातुर्वियोज्यमान एकैको वत्सोऽभिधीयत इति,
नैतद् बुद्धिपूर्वकारिणा चिन्तितुं शक्यम् ।
सामवेदेष्वियं युक्तिः
सामवेदे यदाग्नाइप्रभृतीनां प्रयुज्यते ।
रूपं तत्रापि पौंस्त्वे नाभिप्रायोऽस्ति कश्चन ॥ ५९८
को नाम बुद्धिपूर्वकारी पुरुषोऽर्थाभिधानपराणामृगक्षराणां लोकव्याकरणा-
दिष्वनवगतपूर्वमग्न इत्यस्य पदस्याकारमाकारेण प्लुतेन विकुर्यात् ।
तथा वीतय इत्यस्मिन्नोकारस्यापि विक्रियाम् ।
तशब्दस्य च तो शब्दं ये शब्दस्यापि रूपताम् ॥ ५९९
को मूढो बुद्धिपूर्वो वा नियमात्कल्पयिष्यति ।
तेन वेदस्वतन्त्रत्वं रूपादेवावगम्यते ॥ ६००
किंचिदेव तु तद्वाक्यं सदृशं लौकिकेन यत् ।
तत्रापि च्छान्दसी मुद्रा दृश्यते सूक्ष्मदर्शिभिः ॥ ६०१
एवं च यदाऽध्येतारोऽध्यापयितारः, पार्श्वस्था वा वेद-पद-वाक्य-तदर्थरूपा-
प्यालोचयन्ति, तदा स्वसंवेद्यमेवापौरुषेयत्वमध्यवस्यन्ति । तावता तु बाह्यतार्कि-
काणां प्रतीतिभावना नोत्पद्यत इति, तत्तत्प्रतिपादनक्षमवेदोत्थापितन्यायोपनिब-
न्धनान्मीमांसकैः केवलं यश एव पीतम् ।
शाक्यादिग्रन्थेषु पुनर्यदपि किंचित्साधुशब्दाभिप्रायेणाविनष्टबुद्ध्या प्रयुक्तम्,
तत्रापि प्रज्ञसि-विज्ञसि-पश्यतातिष्ठतादिप्रायप्रयोगात्किंचिदेवाविप्लुतं लभ्यते ।
किमुत यानि प्रसिद्धपभ्रष्टदेशभाषाभ्योऽप्यपभ्रष्टतराणि भिक्खवे इत्येव-
मादीनि द्वितीयाबहुवचनस्थाने ह्येकारा तं प्राकृतं पदं दृष्टम्, न प्रथमाबहुवचने