मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 478, कुल 804 में से
संदर्भ में पढ़ें४२४ मीमांसादर्शनम् [ सू०
त्रिवृच्छब्दः प्रयुक्तो यस्तस्तोत्रीयानवकं प्रति ।
कस्तं शक्तस्तोऽन्यत्र नेतुं जन्मशतैरपि ॥ ४५८
तेन यत्र त्रिवृदग्निष्टोम इति श्रूयते, तत्र तेनैवार्थेन भवितव्यम् । एवं स्तोम-
शब्दो यद्यपि ब्राह्मणस्तोम इत्यादिषु समुदायमात्रवचनत्वेन प्रसिद्धः तथाऽपि
'त्रिवृदेव स्तोमो भवति, पञ्चदशस्तोमो भवति' इति वेदे श्रवणात् स्तुतेश्च मानं
स्तोम इति याज्ञिकस्मरणात् । तथा 'स्तोमे डविधिः पञ्चदशाद्यार्थ' इति व्याक-
रणशास्त्रप्रसिद्धेरवश्यमेव त्रिवृदादिषु लोकप्रसिद्धिरतिक्रमणीया ।
यत्तु मनुवचनं तदुभयाश्रयत्वात् समत्वेनापि युज्यते । यद्वा तत्रापि नव-
तन्तुकमेव त्रिवृच्छब्दात्प्रत्येष्यते तथा रशनात्रिवृत्त्वमपीति । यद्वा यथैवायं नवके
दृष्टः तथाऽयं स्तोत्रीयागतेऽपीति यत्रैव तत्संभवः तत्रैव तत्प्रसिद्धयनुपाती
भवति । यत्र तु संख्येयान्तरविषयत्वम्, तत्र वैदिकोऽर्थो गौणः, गृह्यतां लौकिको
वा मुख्य इति तादृशे विषये मुख्यार्थत्वाल्लौकिकप्रसिद्धिरेव ग्रहीतव्येत्युत्तरसूत्रे
वक्ष्यामः “चोदितं तु प्रतीयेताविरोधात्” इति ।
तथा चरुशब्दोऽप्यन्याय्यानेकार्थाभिधानप्रतिबद्धशक्तित्वादेकत्र नियम्यमानो
याज्ञिकवेदप्रसिद्धिभ्यामोदनविषय एव भवति । आश्ववालैक्षवीशब्दौ तु यदि
तावद्वैदिकप्रयोगलब्धसमुदायप्रसिद्धित्वेन लौकिकीमवयवप्रसिद्धिं जहीतः । ततः
सिद्धमेव शास्त्रस्थप्रतिपत्तिबलीयस्त्वम् । अथापि श्येनजात्युपमितप्रसिद्धश्येनयागे
गौणत्वद्वारा वाऽऽप्तप्रसिद्धिः 'समानमितरच्छचेनेन' इत्यादिष्विवाऽऽश्रीयते;
तथाऽपि शास्त्रकल्पितत्वाद्धर्मं प्रति बलीयस्त्वम् ।
अथापि शब्दगौणत्वं तथाऽपि बलवत्तरम् ।
स्वतन्त्रस्य हि वेदस्य. दृष्टं चेन्न निवार्यते ॥ ४५९
गौणं लाक्षणिकं वाऽपि वाक्यभेदेन वा स्वयम् ।
वेदो यमाश्रयत्यर्थं को नु तं प्रतिकूलयेत् ॥ ४६०
न चात्र 'सन्दिग्धेषु वाक्यशेषात्' इत्येतेन तुल्यार्थत्वम्, प्रतिपत्तिद्वयस्याप्य-
सन्दिग्धत्वात् ।
लौकिकी प्रतिपत्तिर्हि स्वार्थे निःसंशया स्थिता ।
वैदिक्यपि तथा स्वार्थे बाधतेऽतो विपर्ययात् ॥ ४६१
तस्माच्छास्त्रस्थितैवैका प्रतिपत्तिर्बलीयसी ।
न समा मुक्तकाचारैर्विप्रकृष्टैः ससंकरैः ॥ इति ॥ ९ ॥ ४६२
(इति वर्णकचतुष्टयसहितं यववराहाधिकरणम् ॥ ४ ॥)