मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 435, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः १८१
स्मृतितोऽपि सदाचारप्रामाण्यमवसीयेत इत्यतिप्रसङ्गदोषाभावं वक्ष्यमाणमभिप्रेत्याह-
स्मृतिकाराश्चेति । सर्वाचारसाधारण्यप्रदर्शनार्थः सामान्यशब्दः । उत्सवात्मकस्याचारस्य
द्योतकं स्मृत्यन्तरमुदाहरति-तथेति । वैदिकमप्युत्सवलिङ्गमुदाहरति-वेदेऽपि ।
सिद्धान्तमुपपाद्य धर्मस्य शब्दमूलत्वादिति पूर्वपक्षहेतुं साभिप्रायविवरणमनुभाष्य
निराकरोति-यत्त्विति । इहाचारेष्वनन्तेषु परिमितशास्त्रमूलत्वासम्भवादशब्दत्वेनान-
पेक्षत्वं यदुक्तम् ।
तद्—
भ्रान्तेरनुभवाच्चापि पुंवाक्याद्विप्रलम्भनात् ।
दृष्टानुगुण्यसाध्यत्वाच्चोदनैव लघीयसी ॥
इति पूर्वोक्तेन प्रकारेण वेदमूलत्वानुमानात्प्रत्याख्येयमित्यर्थः । आचारप्रामाण्यप्रति-
पादिकायाश्च स्मृतेर्निर्मूलत्वयोगादाचारमूलश्रुतिकल्पनमवश्यंभावीत्याह-न चेति ।
नन्वनन्ताचारमूलभूतानां श्रुतीनामानन्त्यात्पठितुमशक्तेरपठितानां च मूलत्वायोगान्नि-
र्मूलत्वमपरिहार्यमित्याशङ्कयाह-विस्तरेति । कथमनन्तानां संक्षेपवचनमूलत्वमित्या-
शङ्कयाह-शङ्क्यं चेति ।
ननु स्मृत्यनुरूपाश्रुतिः कल्प्या कल्प्यमाना साध्वाचरणेनैवोपलक्षितानां धर्मत्वप्रति-
पादिका कल्प्येत । तत्र शास्त्रव्यापारात्प्रागाचरणसिद्धौ शास्त्रानर्थक्यम्, असिद्धौ वा
शास्त्रादाचरणं तदुपलक्षणेनैव च शास्त्रप्रवृत्तिरितीतरेतराश्रयं स्यादित्याशङ्कयाह - तथा
हीति । श्लोकं विवृणोति-न हीति । ननु व्यापाररूपत्वात्प्रदानादीनां यागादिवत्
स्वरूपेणापि शास्त्रगम्येन भवितव्यमित्याशङ्कयाह-यागादिष्वपि चेति । पूर्वसिद्धत्वादेव
च नेतरेतराश्रयमित्याह-अत इति ।
ननु यदि शास्त्रप्रवृत्तिमनुपलभ्यैव शिष्टप्रवृत्तिः ततः स्वयमेवानुष्ठितप्रदानादेर्भोजनादि-
वत्फलसाधनत्वसिद्धेः शास्त्रानर्थक्यमपरिहृतं स्यादित्याशङ्कानिराकरणार्थम्-क्वाचित्क-
त्वेत्युक्तम् । शिष्टप्रवृत्त्युत्तरकालं तर्हि शास्त्रस्य प्रवृत्तेरादिमत्त्वं स्यादित्याशङ्क्य-
सर्वकालं त्वित्युक्तम् । ननु शिष्टाचारस्यापि मातुलदुहित्युद्वाहादिषु विगानदर्शनात्कथमुप-
लक्षणत्वमित्याशङ्कयाह-तेषां चेति ।
यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥
इति मनुना सदाचारशब्दार्थस्य निर्णीतत्वादिति भावः ।
स्मृतिबलाच्च श्रुतिरपि विशिष्टविषयैव कल्प्येत्याह-वेदेनापीति । सरस्वत्या विनशनं
तिरोभावः सारस्वतसत्रारम्भदेशस्योपलक्षणम् । तस्या एव प्लक्षात्प्रस्रवणं सारस्वतसत्रो-
त्थानदेशस्योपलक्षणम् । सदाचारस्वरूपावधारणे यत्पूर्वमितरेतराश्रयत्वमुक्तम् । तदेव