मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 433, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः १८१
हत्यामयादपक्रान्ते, नहुषः स्ववीर्येणेन्द्रपदमधिष्ठाय तद्भार्यां शचीमभिगन्तुं चकार । वसिष्ठ-
पुत्रे शक्तौ राक्षसैर्भक्षिते तच्छोकान्मर्तुकामो जलं प्रवेष्टुमारेभे । विश्वामित्रः क्षत्रियमपि
त्रिशङ्कुं ब्राह्मणकन्याहरणकुपितस्य पितुः शापाच्चाण्डालत्वमापन्नं याजयामास । उर्वशो-
वियोगशोकातुरुरवा मर्तुमियेष । विचित्रवीर्येऽनपत्य एव मृतं तद्भार्यायामम्बिकायां
धृतराष्ट्रमम्बालिकायां पाण्डुमम्बिकाप्रेषितायां दास्यां विदुरं कृष्णद्वैपायनो जनयामास ।
विधवानियोगोऽपि ब्रह्मचारिणोऽनुचित इति गृहीतेत्यनेन सूचितम् । नियोगविधेरेक्येका-
पत्यविषयत्वादनेकोत्पादनानौचित्यं प्रसङ्गशब्देन सूचितम् । भीष्मस्यानाश्रमित्वमपत्नीकस्य
च स एष भीष्मः कुरुवंशकेतुर्यनाहुतास्त्रिंशतो वाजिमेधाः क्रतुप्रयोग इति धर्मव्यति-
क्रमद्वयम्, रामवदित्यनेन तस्यापि पत्नीत्यागेनैकाकिनः क्रतुप्रयोगाद्धर्मव्यतिक्रमः सूचितः ।
धृतराष्ट्रस्यान्धत्वेनानधिकृतस्य यागकरणाद्धर्मव्यतिक्रमः । अन्धस्य निरंशत्वेन धना-
भावाद्यागासम्भवमाशङ्क्य ।
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः ।
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥
इति दर्शनात्पाण्डुवर्जितधनैरित्युक्तम् ।
सुहृदश्चापि धर्मात्मा धनेन समतर्पयदिति च पाण्डुना धृतराष्ट्रादिभ्यः स्वार्जितधन-
समर्पणान्नापहारः शङ्कनीयः । पाण्डुवर्जितधनोपजीवनं ज्येष्ठस्य धृतराष्ट्रस्यानुचितमिति,
व्यतिक्रमान्तरं चानेनोक्तम् ।
इदं सज्जं धनुः कृत्वा सज्जेनानेन सायकैः ।
अतीत्य लक्ष्यं यो वेद्धा स लभेत सुतामिमाम् ॥
इति द्रुपवेनोद्घोषिते तथाकृतवतेऽर्जुनाय द्रौपदी निवेदिता तथा च "विद्ध्येत य
इमं लक्ष्यं तं वृणीष्व वरानने" इति भ्रातृवचनाल्लक्ष्यवेधानन्तरमेवार्जुनो वृत इत्यपरि-
णयनेऽपि वरणे च जायात्वप्रक्रमादन्यस्य विशेषतो भ्रातुःकनीयसश्च जायायाः परिणय-
नादेको युधिष्ठिरस्य धर्मव्यतिक्रमः, तथा द्रोणो ब्राह्मणो युधिष्ठिरादीनां धनुर्वेदाचार्यो
त्यक्तशास्त्रो न हन्तुं शक्यः । अश्वत्थाम्नि च पुत्रे हते शस्त्रं त्यक्ष्यतीति मत्वा वध्यत्वाय
शस्त्रं त्याजयितुमश्वत्थामा हत इत्यनृतं युधिष्ठिरेणोक्तमित्यपरः ।
वासुदेवेन मातुलदुहिता रुक्मिणी परिणीता । अर्जुनेन सुभद्रेत्येकस्तयोर्द्धर्म-
व्यतिक्रमः ।
उभौ मध्वासवक्षीबौ दृष्टौ मे केशवाजुनाविति च सुरापानादपरः ।
अद्यतनानां धर्मव्यतिक्रमवर्णनम्
अद्यतनानां व्यतिक्रमं दर्शयति—अश्वत्वेऽपीति । अश्वाश्वतरखरोष्ट्रानां 'न केसरिणो
ददाति' निषेधविषयत्वार्थं केसरित्वविशेषणं नोभयदतः प्रतिगृह्णातीति निषेधविषयत्वा-