मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 431, कुल 804 में से
संदर्भ में पढ़ें७ ⁑ प्रथमाध्याये तृतीयपादः ३७९
नन्वेवं तह्यग्रवन्ति प्रागग्राण्युदगग्राणि वापवर्गवन्ति, प्रागपवर्गाण्युदगपवर्गाणि वेत्या-
द्युदाहरणं अविषयतीत्याशङ्क्य तत्राप्युक्तदोषसाम्याद् द्विविधस्यापि विचारस्यानुपपत्तेर-
धिकरणान्तरमेवेदं न भवतीत्याह — तस्मादिति ।
का तर्हि सूत्राणां गतिरित्यपेक्षायामाह — सूत्राणि त्विति । बाह्यस्मृतिविषयस्य
विरोधाधिकरणस्याक्षेपपरिहार्थं सूत्रद्वयम्, तृतीयन्तु स्मृत्यधिकरणोक्ताचारप्रामाण्याक्षेपपरि-
हारार्थमिति विवेकः । आद्यं सूत्रं विरोधाधिकरणाक्षेपे योजयति यत्तर्हीति । द्वितीयं
परिहारे पठित्वा योजयति — परिमितान्येव हीति ।
पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश ॥ या. स्मृ. आ-श्लो-३
इति स्मृत्यैव चतुर्द्दशानां धर्म्मप्रमाणत्वम् उपपादितं च स्मृत्यधिकरणे ।
अथ आयुर्वेदो धनुर्वेदो गान्धर्व्वश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थं च विद्या ह्यष्टादशैव तु ॥
इति स्मृत्या पूर्वैः सह संख्यानेनायुर्वेदादीनामपि क्रत्वर्थाज्यावेक्षणादिसिद्ध्यर्थं-
चिकित्सादिग्विजयर्थं शास्त्रविद्यागानौपयिकषड्गादिद्रव्यार्जनोपयोगिनीति द्वारेण धर्म्म-
प्रमाणत्वं तथापि बौद्धादिग्रन्थानां तन्मध्यपाताभावान्न धर्म्मप्रामाण्यमित्यर्थः । आयुर्वेद-
धनुर्वेदगन्धर्व्ववेदास्त्रय उपवेदाः । मीमांसान्यायविस्तरौ द्वे तूपाङ्गे । साधारणीविशेषविषया
च द्विविधा शिक्षा । तत्र साधारण्याद्वेदाङ्गत्वेन धर्म्मप्रामाण्येऽपि, कात्यायनादिप्रणीतायाः
विशेषविषयायाः प्रतिवाक्यं प्रतिपदं चोच्चारणम् नियच्छक्त्या धर्मप्रमाणत्वाभावशङ्का-
निराकरणार्थं पृथगुपादानेऽपि शिक्षात्वेनैवान्नातिरेकापत्तिः । दण्डनीतिः =
अर्थशास्त्रम् ।
ननु परिमिते विद्यास्थानबाह्यत्वेऽपि तत्संवादिनां बौद्धादिग्रन्थानां कस्मान्न धर्म्म-
प्रामाण्यमित्याशङ्कयाध्ययनविधिवशाद्वेदादेवावगम्यानुष्ठितं कर्म्म श्रेयः साधयतीति नियम-
प्रतीतेर्बौद्धादिग्रन्थादवगम्यानुष्ठितस्यापि वेदार्थस्य श्रेयःसाधनत्वाभावा द्वेदादिपूर्व्वशास्त्रार्थस्य
गोचरस्य बुद्धादिकृतस्य वाक्यस्य धर्मे प्रामाण्यं नास्तीत्याह — प्रतीति । एतदेव व्यवहारेण
द्रढयति — तथा चेति ।
नन्वेवं सति मन्वादिग्रन्थानामप्यप्रामाण्यं स्यादित्याशङ्क्याह — वेदेनैवेति । मन्वादीनां
धर्मप्रवक्तृत्वस्य वेदानुज्ञां दर्शयति — तथा चेति । नन्वनादेर्वेदस्यादिमन्मन्वादिपुरुष-
विशेषाभिधायित्वायोगाच्छ्रुतिसामान्यमात्रेण मन्यते ज्ञायते तेनेति व्युत्पत्त्या मनुशब्देन
वेदाभिधानान्नानेन वाक्यशेषेण मनोः प्रवक्तृताऽनुज्ञायत इत्याशङ्कयाह — न चेतिदिति ।
ननु मनोः प्रवाहनित्यत्वेऽपि तत्स्मृतेरनित्यत्वान्न वेदेन प्रामाण्यानुज्ञानं सम्भवतीत्या-
शङ्कयाह — प्रतीति ।