मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 386, कुल 804 में से
संदर्भ में पढ़ें१३४ मीमांसादर्शनम् [ सू०
(दन्तजातपदेन वर्द्धमानोपलक्षकः कुमारादनुजातपदेन वध्वोपलक्षकः, कृतचूडपदेन
वर्षत्रयोपलक्षकः ।)
'दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥'
इत्युपक्रमानुसारेण वा व्यवस्थावगमान्न तद्दृष्टान्तेनेह विकल्पाङ्गीकरणं युक्तमित्य-
गृहीताभिप्रायः शङ्कते—ननु चेति । अग्निवेदसमन्वितस्य दशाहाशौचानुवृत्तावुभयसाध्य-
होमजपादिलोपाद् भूयसी धर्मपीडा स्यात्केवलवेदस्य तन्मात्रसाध्यजपादिलोपादल्पाद्विहीन-
स्याल्पतरेति धर्मपीडाल्पत्वमहत्वापेक्षया आदिशब्दाज्जातदन्ताद्यपेक्षया चाशौचकालोऽपि
व्यवस्थितविषय इत्यध्याहारेण योज्यम् । उभयत्र समविकल्पनाभ्रयणे कारणं पक्षयोरसाम्यं
तावदाह - यस्य हीति । यस्तु विरोधं चापरं विकल्पानाश्रयणे कारणं दृष्टान्ते तावदाह—
एकरात्र इति । दाष्ट्रान्तिकेऽप्याह—एवमिति । ननु योऽल्पेन कालेनाहं शुद्धः स्यामिति
सङ्कल्पयति, तस्याल्पेन कालेन शुद्धिः बहुकालसङ्कल्पे तु बहुनेति परिग्रहव्यवस्थयाऽशौच-
कालानामविरोधः ।
यश्चाहमक्रीतराजकस्य दीक्षितस्यान्नं न भोक्ष्य इति सङ्कल्पयति, तं प्रति तावत्कालम-
भोज्यान्नता । पशुसंस्थावधिसङ्कल्पे तावत्कालीनेत्युभयत्रापि वस्तुविरोधपरिहारमाशङ्कते—
स्यादेतदिति । यथा यः प्रागुदये-सूर्योदयोत्तरकालेऽग्निहोत्रं होष्यामीति सङ्कल्पयति, तं
प्रत्युदयोत्तरकालोऽग्निहोत्राङ्गम् । यस्तूर्ध्वोदये सूर्योदयात्प्राक्काले होष्यामीति सङ्कल्पयति,
तं प्रत्यसाविति परिग्राह्यव्यवस्थाय्रा प्रागूर्ध्वोदयोःकालयोरविरोधः तथैहापीत्यर्थः ।
प्रागूर्ध्वं चोदयो याभ्यामिति विग्रहः । सर्वेष्वपि वैकल्पिकेषु व्रीहियवादिषु परिग्रहव्यवस्थायै
वाऽविरोध इति समविकल्पत्वाविघातः ।
आशङ्किता विकल्पे इमं परिहारं दूषयति—युक्तमिति । परिग्रहव्यवस्थया वस्तु-
विरोधपरिहारो वाऽभिप्रेतः । अनुष्ठानविरोधपरिहारो वा । तत्र वस्तुस्वरूपस्य पुरुषेच्छा-
धीनत्वान्न तद्वशेन वस्तुविरोधपरिहारः सम्भवति उदितानुदितहोमयोस्त्वनुष्ठानात्मकत्वा-
द्वस्तुविरोधो नास्त्येनेन श्लोकेनोक्तम् । अथानुष्ठानविरोधपरिहारः परिग्रहव्यवस्थयानेन
दृष्टान्तेनोच्यते । तदप्ययुक्तम् । पक्षद्वयस्य हि साम्ये सति पुरुषेच्छावशाद्विकल्पेनोभयानुष्ठानं
युज्येत । दृष्टान्ते च पक्षद्वयसाम्यात्तद्युक्तमित्याह—न चेति । क्लेशः=शरीरायासः । क्षयो=
न्यूनद्रव्यत्वम्, व्ययः=अत्यन्तनाशः । आदिशब्दात्तत्कालीनलौकिककार्यान्तरबाधः ।
दाष्ट्रान्तिके तु सिद्धे वस्तुनि सदसत्त्वविरोधस्यापरिहार्यत्वाद्विकल्पो—न सम्भवतीत्युक्तम् ।
न च दीर्घकालस्य परिग्रहः सम्भवत्याशौचावृद्धेर्निषिद्धत्वादित्याह—इह त्विति ।
न केवलं सदसत्त्वविरोधान्निवार्यते, किं त्वनेनापि मनुवचनेनेत्यपिशब्दार्थः । ननु दीक्षि-
तान्नभोज्यत्वस्य दीर्घकालत्वनिषेधाभावात्परिग्रहव्यवस्थयाऽनुष्ठानविरोधपरिहारो भविष्य-
तीत्याशङ्क्योभयत्राप्यल्पकालनिरोधेन कृतार्थस्य बहुकालनिरोधे प्रवृत्त्यसम्भवादीर्घकाल-