सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 384, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 384

३३२ मीमांसादर्शनम् [ सू०
किं च स्मृतेर्मूलप्रमाणोपस्थापनमात्रेण कृतार्थत्वान्नौदुम्बरी प्रमेया, तत्प्रमेयायाः
श्रुतेः प्रत्यक्षश्रुत्यविषयत्वेन तया परिच्छेत्तुमशक्यत्वान्नानुमानप्रतिबन्धो युक्त इति ।
बाधकं तु स्मृतिमूलश्रुत्यभावव्याप्तं लिङ्गं विरुद्धश्रुतिदर्शनस्यानैकान्तिकत्वप्रतिपादनेन
पूर्वपक्षवेलायामेव निरस्तम् । अनुपलब्धिस्त्वस्मदादीनां विप्रकीर्णशाखान्तरगतश्रुत्युप-
लब्धाशक्तेः स्मर्तृप्रत्यक्षस्य च स्मृत्यधिकरणसाधितत्वेनेदानींतनपुरुपान्तरप्रत्यक्षत्वस्य
चोपनयादिस्मृतिमूलश्रुतिदृष्टान्तेनानुमानोपपत्तेः, सर्वानप्रत्यसिद्धत्वान्नाभावसाधनायाऽल-
मित्याह-शाखान्तरेति । न च स्मर्तृपुरुषाधीनप्रत्ययत्वमात्रेणानुमेयश्रुतिष्वनाश्वासः अध्यापक-
पुरुषाधीनप्रत्यक्षत्वेनेतरास्वप्यनाश्वासापत्तेरित्याह-तत्रेति ।
नन्वग्निहोत्रादिश्रुतीनां प्रत्यक्षत्वान्न तास्वनाश्वासापत्तिरित्याशङ्क्य वर्णस्वरूपस्य
प्रत्यक्षत्वेऽप्यनादिसम्प्रदायागतत्वस्य पुरुषाधीनत्वात्तुल्यतामाह-वेदो हीति । न च
स्मरणार्थत्वेन पूर्वदृष्टघटादिवन्नित्यत्वानवधारणं शङ्कनीयमग्निहोत्रादिश्रुतिष्वप्यविशेषादि-
त्याह-अनुच्चारणकालेति । उपसंहरति-तेनेति ।
ननु वेदविरोधेन स्मर्तुरनाप्तत्वान्न मूलश्रुत्यनुमानं सम्भवतीत्याशङ्क्य, प्रत्यक्ष-
वेदमूलोपनयनादिस्मृतिप्रणेतृत्वेनावधारितत्वात्तदभावस्य सत्त्वादेरेकदेशविरोधेऽप्यनाप्तत्व-
कल्पनं न युक्तमित्याह-स्मृतीति । किं च निष्ठानुमेयाया श्रुतेर्न्यायेन बाधो युज्येतापि,
शाखान्तरपठितश्रुतिबाधे तु प्रत्यक्षविरोधाशङ्का दुःपरिहरेत्याह बाधिता चेति ।
उपरिष्टात्ते इति शब्ददर्शनात्तय्या न्यायविदा भूत्वेत्यध्याहारेण योज्यम् । न चिरादित्य-
व्यानव्येऽपि नञो विभाषाधिकारे नञ्समासस्मरणान्न होतारं वृणीते इतिवदसमानान्न-
लोपाभावो न दोषः । प्रत्यक्षविरोधाशङ्काया च त्वदुक्तस्य न्यायस्य सम्यक्त्वानवधारणा-
न्यायाभासेन मूलश्रुत्यनुमानबाधाङ्गीकरणे मर्यादातिक्रमादिसर्वं पूर्वोक्तमपरिहार्यं
स्यादित्याह-बाधेति ।
न्यायं दूषयित्वोदाहरणानि दूषयन्नाद्यं तावदुदाहरणं 'तामूर्ध्वदशेन' वा ससा परिवेष्ट-
यन्तीति प्रत्यक्षश्रुतिमूलत्वाद् दूषयति-यच्चैतदिति । एतच्छान्दोग्यानुपपदे जैमिनिकृते
सूत्रग्रन्थे जैमिनिनौदुम्बरीप्रकरणे चेत्यादिना दर्शयतीत्यन्तेन स्वग्रन्थेन शाट्यायनिब्राह्मण-
गतश्रुतिमूलत्वेनान्वाख्यातमित्यन्वयः । शाट्यायनिनां शाखिनामौदुम्बरीप्रकरणे तामूर्ध्व-
दशेनेति श्रुतिरुभयत्र विष्टुत्यामौदुम्बर्य्यां च वाससी दर्शयतीति जैमिनिग्रन्थस्यार्थः । उभयत्र
शब्दः किं विषय इत्यपेक्षायां वैष्टुत इत्याद्युक्तं स्तोत्रीयपरिगणनार्थनामौदुम्बरीणां प्रादेश-
मात्राणां कुशानां विष्टुतिशब्दवाच्यानां स्थापनार्थं वासो वैष्टुतमुच्यते । तस्मिन् शौर्वं वासः
श्रीः सामेत्यर्थवादपुरःसरं प्रत्यक्षश्रुतिमूलत्वेन दर्शिते तत्प्रसङ्गेनौदुम्बरीवेष्टनवाससाऽपि
प्रकाशश्रुतिमूलत्वमेवान्वाख्यातं तामूर्ध्वदेशेनेति प्रकृतौदुम्बरीपरामर्शप्रतीकोपन्यासेनेत्यर्थं ।
उपसंहरति-ततश्चेति । अविरोधादपीदं नोदाहरणं युक्तमित्याह-विरुद्धत्वे चेति ।
औदुम्बरी परिवेष्टयितव्येत्येतावन्मात्रं सूत्रकारेणोक्तम्, न सर्वेति तत्र ययोपनेष्यमाणमहतेन