मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 378, कुल 804 में से
संदर्भ में पढ़ें३२६ मीमांसादर्शनम् [ सू०
अभोजनविधिर्नूनमस्त्यन्योऽप्यान्तरालिकः ।
न हि पूर्वमनुज्ञाते स्यादनुज्ञान्तरं पुनः ॥ २४९
वरणादभ्यनुज्ञाते निर्वापे किमनुज्ञया ॥ २५०
यथाऽध्वर्योर्वरणवेलायामेव सर्वं यजमानेन यज्ञोपयोगि स्वयमनुज्ञातमेवेति
निर्वापमन्त्रे प्रसवशब्देन तदानींतनयजमानानुज्ञाप्रकाशनं न क्रियते तथेह क्रीत-
राजकावस्थानुज्ञातभोजनानुज्ञावचनमग्नीषोमीयसमाप्तौ पुनरुक्तमित्यवश्यं नियमेन
प्रतिषेधान्तरेण वा वारितस्यानुज्ञानार्थमित्यवगम्यते ।
प्रतिषिद्धाभ्यनुज्ञा च विकल्पेनैव दूष्यते ।
पर्युदस्ताभ्यनुज्ञानं तस्मादिष्टं व्यवस्थया ॥ २५१
दीक्षितान्नविशिष्टाभोजननियमो हि श्रेयोर्थिभ्यो विधीयते ।
पाश्चात्यभोजनानुज्ञा नान्यथा ह्युपपद्यते ।
अदृष्टार्थप्रसङ्गित्वात्न विधिश्चायमिष्यते ॥ २५२
एवं विषयनानात्वादविरोधादबाधनम् ।
अष्टाचत्वारिंशदिति उदाहरणनिरासः
अष्टाचत्वारिंशद्वर्षं वेदब्रह्मचर्यचरणस्यापि स्मृितावेव पक्षान्तरविकल्पापेक्ष-
निबन्धनादाश्रमन्तरविषयत्वसंभवाद्वा विरोधाभावः । तथा हि—
'वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।'
सामर्थ्याश्रमयोग्यत्वमङ्गीकृत्यैतदुच्यते ॥ २५३
गौतमेनापि द्वादशवर्षाण्येकवेदब्रह्मचर्यं चरेदिति प्रथमकल्पमाशु गार्हस्थ्य-
प्रतिपत्त्यर्थमुक्तवा, द्वितीयकल्पे द्वादशप्रतिवेदं वा, सर्वेष्वित्यष्टाचत्वारिंशत्परि-
ग्रहः कृतः ।
तत्रैवं शक्यते वक्तुं येऽन्धपङ्गवादयो नराः ।
गृहस्थत्वं न शक्ष्यन्ति कर्तुं तेषामयं विधिः ॥ २५४
नैष्ठिकब्रह्मचर्यं वा परिव्राजकताऽपि वा ।
तैरवश्यं ग्रहीतव्या तेनाऽदावेतदुच्यते ॥ २५५
उपकुर्वाणकेनैव याप्यः कालो बहुतस्ततः ।
संप्राप्य ज्ञानभूयस्त्वं पवित्रैः क्षीणकल्मषैः ॥ २५६
सर्वाश्रमातिरिक्तेन स्वाध्यायेनैव शोधितः ।
स्तोकेरप्याश्रमाचारैर्गतिमिष्टां गमिष्यति ॥ २५७