मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 363, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये तृतीयपादः ३११
स्यसंशयाशुद्धिकारणत्वानुपपत्तेः पतितचण्डालसूतिकोदक्याशवस्पृष्टिवत्तत्स्पृष्टाशने सचेलो
जलमाविशेदित्यस्य च मनुष्यमात्रविषयत्वोपपत्तेर्न चण्डालस्पृष्टवस्त्रस्पर्शे दोषकल्पनं
युक्तमित्याशङ्कते—कथं पुनरिति । ननु सूत्यादिवदनिषिद्धोऽपि वस्त्रस्याशुचिस्पर्शो
शुचित्वमापादयिष्यतीत्याशङ्क्यानिष्टापादनेन प्रत्याचष्टे—कथं वेति । तत्स्पृष्टेषु स्पृश्य-
मानेष्विति विग्रहः । अनिष्टापत्तिं तावत्परिहरति—तदुच्यत इति । काष्ठादीनां चण्डालादि-
स्पर्शापादितस्याप्यशुचित्वस्य ।
अष्टाङ्गुलं भवेत्काष्ठं तृणमुष्टिर्यदा भवेत् ।
मारुतेनैव शुद्धिः स्यादूर्ध्वं स्पृष्टिनं दूष्यति ॥
इति स्मृतेः आदिशब्दोक्तानां च रथ्याकर्दमादीनाम्—
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानिति ॥
स्मृतेर्वायुस्पर्शेनापनयात् स्पर्शस्य च दोषकारणत्वं न जातमशुचित्वानापादना-
दित्याशयः । ननु निर्वातस्थस्य काष्ठादेश्चण्डालादिस्पृष्टस्यापि शुद्ध्यन्तरास्मरणेन मारुत-
शुद्धिस्मृतेरशुचित्वानापत्तिप्रतिपानपरत्वावसायान्न तावत्तत्साम्येन वस्त्रस्याशुचित्वापत्तिर्वक्तुं
शक्यते । न च प्रक्षालनशुद्धिस्मृतेर्वस्त्रस्याशुचित्वापत्तिर्वक्तुं शक्यते । "तस्याः" गन्धलेपाप-
कर्षणे शौचममेध्यस्ये'ति लेपापकर्षणोपदेशाल्लिप्तविषयत्वप्रतीतेरित्याशङ्कते—नन्विति ।
प्राक्तनलेपापकर्षणविषयत्वेनापि विध्युपपत्तेनश्रुतलिप्तविषयत्वकल्पनं युक्तमिति परि-
हरति-नेति । तुशब्दः शङ्कानिवृत्त्यर्थः । यद्यपि केनचिदमेध्येन लिप्तस्येति लिप्तपदं प्रक्षिप्य
पठ्यते, तथाप्यभियुक्तबहुजनापठितत्वान्नासावार्षः पाठ इति चिरन्तनग्रहणेन सूचितम् ।
तवं तर्हि वस्त्रस्यामेध्यत्वाभावान्नानेन शुद्धिरुक्ता स्यादित्याशङ्क्याह-चण्डालेति । आशङ्का-
वादी स्वाभिप्रायं प्रकटयति — ननु चेति । गवाश्वादितुल्यत्वावधारणहेतुः स्वाभाविका-
शुचित्वनिषेधाधिकाराभावरक्षणः प्रागेवास्माभिरुक्तः । स्वाभाविकाशुचित्वनिषेधाधिकार-
योरभावेऽपि प्रक्षालनविधिसामर्थ्याच्चण्डालादिस्पर्शेन वस्त्रस्याशुचित्वापत्तिरवसीयत इति
परिहारवादी स्वाभिप्रायं प्रकटयति — उच्यत इति । चण्डालस्पृष्टवस्त्रस्पर्शनिमित्त-
दोषप्रतिपादनस्य प्रकृतोदुम्बरीस्पृष्टवस्त्रस्पर्शनिमित्तो दुम्बरीस्पर्शबुद्ध्यभावोपयोगितामाह-
अतश्चेति । शाखान्तरे चौदुम्बर्योद्गाता स्पृष्टव्य इति विधानात्तस्याश्चाचेतनत्वेन स्पर्श-
संवेदनलक्षणस्पर्शयोगात्प्राप्तिमात्रवचनत्वेन स्पर्शश्रुतेः प्राप्तेश्च व्यवधानेऽनुपपत्तेरविरोधा-
शङ्कव नास्तीत्याह—यदा त्विति ।
ननु कस्यांचिच्छाखायामोदुम्बर्याश्रयत्वमात्रविधानाद्वस्त्रान्तरिताया अपि चौदुम्बर्याः
पतनप्रतिबन्धकत्वेनाश्रयत्वोपपत्तेरविरोधो भविष्यतीत्याशङ्कयाह-अपाश्रयणेति । अस्पृष्टायाः
संयोगाभावेनाश्रयत्वायोगादपाश्रयणहस्तसंयोगाद्यनेकोपायसाध्ये च स्पर्शेऽपाश्रयणनियमार्थ-
त्वेनापाश्रयणविधेरपाश्रयणेनैवौदुम्बरीं स्पृष्ट्वेत्येकवाक्यत्वावसायादस्त्येव विरोध इत्याशयः ।