सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 357, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 357

३ ] प्रथमाध्याये तृतीयपादः ३०५
रित्यर्थः । क्वचिद्विपरीतपाठः । तत्र प्रमीयत इति भावे लकारः । यावत् स्मृत्या श्रुत्यनु-
मानेन प्रमाणीभूयते-मवितुमारभ्यते तावच्छ्रुत्यर्थ एव प्रतीयत इत्यर्थः ।
नन्वर्थपरिच्छेदाय प्रवृत्ता स्मृतिः पश्चादपि तावदर्थपरिच्छेदं करिष्यतीति किमिति
विकल्पो न स्यादित्याशङ्क्य, अपवादसिद्धयर्थं जिज्ञासाविरहेणैकप्रमाणपरिच्छिन्नेऽर्थे
प्रमाणान्तराप्रवृत्तिं पूर्वोक्तामेव विकल्पनिरासार्थं स्मारयति—विरुद्धेति । प्रमेयाकाङ्क्षा-
निराकरणेन प्रमात्रा आकाङ्क्षैव निराकृता ताद्रूप्यपरिच्छिन्नेऽपि मन्थरं न प्रवर्तते, किमुत
वैपरीत्यपरिच्छिन्न इत्याह—न चेति । ननु श्रुत्यर्थपरिच्छेदकाले यद्यपि स्मृत्यार्थो न
परिच्छिद्यते, तथापि श्रुतिस्तावदनुमीयते, ततश्चानुमितायाः श्रुतेः प्रत्यक्षया सहाविशेषा-
त्किमिति विकल्पो न स्यादित्याशङ्क्याह — स्मृत्या चेति । स्मार्त्तार्थपरामर्शमात्रं तदोत्पद्यते
न श्रुत्यनुमानमित्यर्थः । नन्वन्यतः परिच्छिन्नोऽप्यर्थो सत्यामपि जिज्ञासायां स्वसामर्थ्यं
स्मृत्यापि पश्चाच्छेत्स्यतेऽत आह—किं कर्त्तव्यमिति । यदि चैवमभविष्यत्ततः सन्निकर्ष-
विकर्षविशेषाभावाद् बलाबलव्यवस्था नामविष्यदित्याह—युगपदिति ।
यदि च श्रुत्यर्थपरिच्छेदसमकालमेव स्मृत्या स्वमूलं स्मृतिरनुमीयेत, ततोऽर्थ-
विप्रकर्षेऽपि श्रुत्यवष्टम्भात् वलावलव्यवस्था न स्यात् न त्वेतदस्तीत्याह—यद्वेति । तस्मिन्नेव
क्षणे मूलं यदि कल्पयेदिति, यदिशब्दोऽध्याहार्यः, यद्वेति वा यच्छब्द एव यदिब्दार्थे
व्याख्येयः' । यतस्तु स्मृत्या गृहीतेऽप्यर्थे मूलान्तरनिषेधयुक्तिपर्यालोचनापेक्षत्वाच्चिरेण
श्रुतिकल्पनेति तुशब्दाध्याहारेण व्याख्येयः । ननु श्रुत्यनुमानासम्भवेऽपि स्वतन्त्रेव स्मृतिः
प्रतिष्ठास्यतीति विकल्पोऽपरिहार्य इत्याशङ्क्याह—स्मृतिरिति । अतोऽस्ति श्रुतिस्मृत्योरेक-
रूपत्वे व्यवस्थितं चिह्नमित्युपसंहरति—तदपेक्षेति । ततश्चेत्यस्मिन्नर्थे पुनः शब्दः ।
एवं विकल्पस्याष्टदोषत्वान्न तावत्साभ्युपेयतेति पूर्वार्द्धं व्याख्याय, पाक्षिके चाप्रमाणत्वे
स्मृतयः सुनिराकरा इत्युत्तरार्धं व्याख्यास्यन्विवेकार्थं पूर्वोक्तं बाधप्रकारमुपसंहरति—
एष तावदिति । उत्तरार्द्धं व्याचष्टे—द्वितीयेनेति । विकल्पपदवीं गतायाः स्मृतेरत्यन्तबाध
इति द्वितीयः प्रकार इत्यर्थः । कथमित्यपेक्षायामापन्नापाक्षिकं बाधमित्युक्तम् । अत्रैवार्थेऽ-
नारब्धव्याख्यानमपि भाष्यं प्रसङ्गाद्विवेक्तुं योजयति—तद्दर्शयतीति । नासति व्यामोह-
विज्ञाने इत्यादिभाष्येणैको बाधप्रकार उक्तः । विकल्पं त्वियादिना द्वितीय इति विवेकः ।
पाक्षिकबाधापत्तावपि कथमात्यन्तिको बाध त्याशङ्क्याह—तदा चेति । भाष्योक्तः श्रुति-
प्रमाणपक्षस्तदाशब्देन परामृष्टः । किं तु तदानीं स्मृत्यप्रामाण्यकल्पनावॆलायां सा स्मृतिर-
श्रुतिमूलावधार्यते । यतस्तस्याः प्रमाणत्वं श्रुतिमूलत्वकारितमित्यन्वयः । ननु श्रुतिमूलत्वा-
भावेऽपि स्वातन्त्र्येण प्रामाण्यसम्भवात्कथमत्यन्तबाध इत्याशङ्क्याह—श्रुतीति । विप्र-
लम्भादेर्निराकृतत्वात्कथमापत्तिरित्याशङ्क्य निराकृतेत्युक्तम् । स्वातन्त्र्यनिरासायाविगा-
नेत्युक्तम् । नित्यत्वद्वारेत्यनेन नित्यत्वं बिना स्वातन्त्र्यं न सम्भवतीत्युक्तम् ।
नन्वेवमपि प्रमाणान्तरमूलतया प्रामाण्यं भविष्यतीत्यत आह—श्रुतिमिति । स्मृतेर-
तीन्द्रियार्थविषयत्वात्प्रमाणान्तरं मूलं न सम्भवतीत्याशयः । श्रुतेरेवेति पूर्वोपन्यस्तं
२०