सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 335, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 335

३ ] प्रथमाध्याये तृतीयपादः २८३
एकमूलव्यवस्थायां मूलान्तरनिराक्रिया ।
अप्रामाण्यनिवृत्त्यर्थं शक्या न तदुपेक्षणे ॥ २७
किं च—परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
स्मृतेःश्रुतिविरुद्धायास्ततो मूलान्तरं भवेत् ॥ २८
यदा तूदितानुदिताग्निहोत्रहोमविविधवदतिरात्रगतषोडशिग्रहणवच्च सहस्रशः
श्रुतयोऽप्यसंभववद्युगपदनुष्ठानार्थतया परस्परविरुद्धा दृश्यन्ते तदा यदि नाम
कासांचित्स्मृतीनां स्ववेदशाखागतवचनविपरीतार्थशाखान्तरवचनमूलानामधीत-
वाक्यविरोधो दृश्यतेऽस्तस्तावत्तैव सर्वशाखाप्रत्ययकर्मव्यवहारिणां स्वयमश्रुतान-
धीतत्वमात्रेण दृढस्मरणोपस्थापितपुरुषान्तरस्थश्रुतिनिराकरणं न शोभते चैकं
प्रतिशिष्यत इति हि सर्वश्रुतीनां सर्वपुरुषान्प्रति प्रामाण्यादध्ययनवच्च स्मृतेरपि
श्रुतिधारणसामर्थ्यात् ।
तस्माद्यथा विरोधेऽपि पठ्यमानप्रमाणता ।
पठितस्मर्यमाणानां तथैवेत्यवधार्यताम् ॥ २९
किं च—
अविरोधे श्रुतिमूलं न मूलान्तरसंभवः ।
विरोधे त्वन्यमूलत्वमिति स्यादर्थवैशसम् ॥ ३०
मूलान्तरं निरस्तं च सामान्येनैव यत्पुरा ।
तदनुप्राप्यते पश्चाद्विरोधे नेत्यतिक्रिया ॥ ३१
तेनाऽऽसां श्रुतिमूलत्वं सर्वदैव व्यवस्थितम् ।
मूलान्तरप्रवेशे वा किं तत्प्रामाण्यतृष्णया ॥ ३२
किं च भ्रान्त्यादिमूलानां संभवासंभवाश्रयः ।
स्मृतीः प्रति विरुद्धोऽयं बाधपक्षो न युज्यते ॥ ३३
तेनाऽऽसां यदि वा नैव क्वचिदस्ति प्रमाणता ।
सर्वत्राव्याहता वा स्यान्न त्वर्धजरतीयता ॥ ३४
विरुद्धत्वं च जानन्ति स्मर्तारस्ताः स्मरन्ति यत् ।
वेदमूलबलं त्यक्त्वा किमन्यत्तत्र कारणम् ॥ ३५
गृह्यमाणनिमित्तत्वाद्यद्युच्येताप्रमाणता ।
उत्प्रेक्षणीयहेतुत्वात्सा सर्वत्र प्रसज्यते ॥ ३६
रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः ।
क्व वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः ॥ ३७
अदुष्टेन हि चित्तेन सुलभा साधुमूलता ।
दुष्टमूलत्वलाभस्तु भवत्याशयदोषतः ॥ ३८