सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 275, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 275

३७ ] प्रथमाध्याये द्वितीयपादः २२३
इसलिये आचार्य उदयन ने कहा है—“नादृष्टं दृष्टघातकम्” ( कुसु० ५।४ ) अतः,
द्वितीय दूषण मेरे सिद्धान्त का विरोधी नहीं है ।
“अविरुद्धम्” = विरुद्ध नहीं है, परम् = द्वितीय वचन, वाक्यनियमात् = यह वचन
हमारे सिद्धान्त का विरोधी नहीं है ॥३६॥
सम्प्रैषे कर्मगर्हानुपलम्भः संस्कारत्वात् ॥ १.२.३७ ॥
शा० भा०—अथ यदुक्तं ‘प्रोक्षणीरासादयेति’ बुद्धबोधनमशक्यं अत उच्चा-
रणाददृष्टमिति । तन्न । कर्तव्यमित्यपि विज्ञातेऽनुष्ठानकाले स्मृत्या प्रयोजनम् ।
उपायान्तरेणापि सा प्राप्नोति । अतोऽनेनोपायेन कर्तव्येति नियमार्थमाम्नानम्,
संस्कारत्वात् ॥ ३७ ॥
भा० वि०—यद्वा अविरोधे हेतुमाह—एवमिति । इतिर्हेतौ ।
बुद्धशास्त्रानर्थक्यं परिहरति—सम्प्रैष इति । सम्प्रैषे कर्मगर्हेति सूत्रावयव-
मनुभाषणपरतया व्याचष्टे—अथेति । यद्यपि पूर्वमग्नीदग्नीनिति वाक्यमुदा-
हृतमिति ध्येयम्, अनेन सम्प्रैषेऽग्नीदग्नीन् इत्यादौ याभिधानकर्मगर्हाभिप्रेतेति
सूत्रार्थो विवृतः अनुपलम्भ इति परिहारप्रतिज्ञां व्याचष्टे - तन्नेति । संस्कार-
त्वादिति हेतुमनुष्ठेयार्थस्मृतिलक्षणपुरुषसंस्कारार्थत्वादिति व्याचष्टे—कर्तव्य-
मिति । बुद्धबोधनमपि कर्तव्यमिति विज्ञायते यतः प्रयोगकालीनया स्मृत्या
प्रयोजनमस्तीति सम्बन्धः ।
ननु विद्यादिनापि स्मृतिसिद्धेरानर्थक्यं तदवस्थमेवेति चोदयति—उपाया-
न्तरेणेति । संस्कारत्वादिति हेतुमावृत्त्या योजयन् परिहरति—अनेनेति । अदृष्ट-
रूपसंस्कारार्थत्वात् स्मरणस्य मन्त्रेणैवोपायेन कर्तव्यमिति नियमार्थं शास्त्र-
मर्थवदित्यर्थः ॥ ३७ ॥
त० वा०—येयं सम्प्रैषे ‘अग्नीदग्नीनित्यत्र’ बुद्धबोधनासम्भवादभिधानकर्म-
गर्हाऽभिहिता, साऽप्यनुपालम्भः, स्मरणसंस्कारार्थत्वात् । बुद्धीनां हि क्षणिकत्वा-
त्स्वाध्यायकालोत्पन्नानां न प्रयोगकालं यावदवस्थानम्, तत्रावश्यं केनचिद्ध्याना-
दिनाऽनुसन्धाने कर्तव्ये मन्त्रो नियम्यते ।
अथ वा संस्कारत्वादिति । यदि हि बोध एवावतिष्ठते, ततोऽनवकाशत्वं
भवेत्, इह तु तदीयसंस्कारमात्रावस्थानात्तदभिव्यक्तिद्वारेणास्ति ज्ञानोत्पत्त्यवसर
इति न मन्त्रानर्थक्यम् ॥ ३७ ॥
न्या सु०—अथेति भाष्येण बुद्धशास्त्रानर्थक्याशङ्कानुभाषणाथंत्वेन सम्प्रैषे कर्मगर्हेति
सूत्रावयवं व्याख्याय, तन्नेत्यनेन च परिहारप्रतिज्ञार्थत्वेनानुपालम्भ इति सूत्रावयवं