सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 270, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 270

२१८ मीमांसादर्शनम् [ सू०
ननु यज्ञपतिमेव तत्प्रजया प्रथयसीति अनेनैव स्तुतौ सिद्धायां किं प्रथन-
मन्त्रानुवादेनेति तत्राह - मन्त्रः पुनरिति । स्तोतुमिति । प्रथनसाधनमन्त्रपर्या-
लोचनयापि स्तोतुमित्यर्थः, स्तुतिमभिनयति--इत्थमिति । नन्वनेन मन्त्रेण
क्रियमाणमपि प्रथनं कथं प्रशस्तं भवतीति पृच्छति--कस्तद्वेति । उत्तरं--
यज्ञपतिमिति । एतन्मन्त्रशेषे हि उरु ते यज्ञपतिः प्रथतां इत्येवंरूपाण्यक्षराणि
पठ्यन्ते, तत्र च पुरोडाशप्रथनस्य यजमानप्रथनसाधनत्वावगमात् स्पष्टा प्रथन-
स्तुतिरित्यर्थः, यज्ञपतिप्रथनमस्य फलत्वेन स्तुतित्वेन वा सङ्कीर्त्यत इति जिज्ञा-
सया पृच्छति--किमिति । अस्य पुरोडाशप्रथनस्य यज्ञपतिप्रथनमेव फलं भवति
किं फलमस्यैवैतत् किं न स्यादिति भावः । लिङ्गविनियोज्यतया प्रमेयमन्त्रस्य
फलप्रमापकत्वाभावात् प्रथनफलानुवादेन स्तुत्युपपत्तेश्च, स्तुत्यर्थतैव युक्तेति
परिहरति - नेति । ब्रूम इति । ननु प्रयोज्यव्यापाराभिधानं विना प्रयोजकव्या-
पाराभिधानासम्भवात् प्रथत इति च प्रयोज्यव्यापारानभिधानेन च प्रथयतीत्यपि
निर्देशाासम्भवात् अप्रतीयमानप्रयोजकव्यापारविधानासम्भवाच्च न विधिशेषतया
स्तुतित्वेनार्थवत्तेति चोदयति--कथमसतीति । प्रथने=प्रथनशब्द इत्यर्थः, ऊरु
प्रथस्वेति प्रतीकोपात्तमन्त्राभिहितप्रथनरूपप्रयोज्यव्यापारमाश्रित्य प्रथयतीति
प्रयोजकव्यापारविधिसम्भवाद्युक्ता स्तुत्यर्थतेति परिहरति--मन्त्राभिधानादिति ।
एतद्विवृणोति--मन्त्रेणेति । तथा किमित्यत आह--यश्चेति । प्रथस्वेति स्व-
व्यापारे प्रथने पुरोडाशं प्रेरयन् ह्यध्वर्युः प्रथयति, ततश्च प्रथनरूपप्रयोज्यव्या-
पाराभिधायित्वं मन्त्रस्य स्फुटमित्यर्थः, प्रयोज्यं स्वव्यापारे प्रेरयन् प्रयोजको
भवतीत्यत्र दृष्टान्तमाह-यथेति ॥ ३५ ॥
त० वा०- यद्यपि प्रदेशान्तरस्थत्वान्मन्त्रविधानं न स्तूयते, तथाऽपि प्रथन-
विधानात्तत्परोचनया च सकलं वाक्यमर्थवत् । तस्य ह्येतदेवोत्पत्तिवाक्यम् ।
ननु च पुरोडाशान्यथानुपपत्तिप्राप्तत्वात्प्रथनं न विधातव्यम् । नैतन्नियोगातः
प्राप्नोति । द्रुततरं हि पिष्टमप्रथितमपि प्रथेत् । विधाने तु सति तादृशं कर्तव्यम्,
येन प्रथयितव्यं भवति । एवं चाध्वर्युकर्तृकताऽपि सिद्ध्यति । पठ्यमानं ह्याध्वर्य-
वसमाख्यां लब्ध्वा कर्तृविशेषं नियच्छति । अर्थप्राप्तं त्वसमाख्यातत्वान्न निया-
मकं स्यात् । एवमर्थं च यद्यप्येकान्ततोऽर्थात्प्राप्नुयात्, तथाऽपि वाक्येनैव प्राप-
यितव्यम् । तस्मादुपपन्नो प्रथनस्तुतिः ।
एवमपि यज्ञपतिमेव तत्प्रथयतीत्यनेन स्तुतौ सिद्धायां मन्त्रग्रहणमनर्थकम् ।
न । मन्त्रस्यैव स्तुत्यर्थमुपादानात्, प्रथनं कर्तव्यम्, तस्य हि क्रियमाणस्यायं मन्त्रः
साधनं भवति । तत्र चोरु ते यज्ञपतिः भवतीति गुणो लभ्यते । किमेतदेवास्य
फलमिति । नेत्याह । स्तुत्यर्थमेव तद् द्रव्यसंस्कारकर्मस्विति न्यायात् । यद्यप्यत्र