मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 265, कुल 804 में से
संदर्भ में पढ़ें३४ ] प्रथमाध्याये द्वितीयपादः २१३
नानुमानिकवाक्यप्रतिबन्धमात्रं फलमिष्यते । किं हि तेन पठितेन यस्यान्यतोऽ-
प्यर्थः सिद्धयति तदर्थं गर्दभरशनानिवृत्तिः फलं कल्प्यते । तेनैवं कल्प्यते कृत्वा-
चिन्तान्यायेन यदि नामैत्रं वाक्यं न भवेत्, ततः कीदृशमनुष्ठानं स्यात् । तत्र
मन्त्रप्राप्तिस्तावदेकान्तेन सिध्येदश्वाभिधान्याम्, तद्वदेव तु गर्दभरशनायामपि
प्रसज्येत । यदा त्वनेन वाक्येन प्रत्यक्षेण नैराकाङ्क्ष्यादविशेषविनियोगसमर्थ-
वाक्यानुमानं निषिद्धम्, तदा केवलाश्वाभिधानीविषयत्वसिद्धिरित्यपौनरुक्त्या-
दर्थवद्वाक्यम् ॥३४॥
न्या० सु०--अत्र भाष्यकृता 'परिसञ्चक्षाणे चेति' पूर्वोक्तदोषत्रयमनुभाष्य लिङ्ग-
प्राप्तमन्त्रादानसम्बन्धविधानानर्थक्यापत्तेः । स्वार्थहानं स्यात्, तदप्राप्तमन्त्राश्वाभिधाना-
सम्बन्धविधानात्तु नैव दोषप्रसक्तिरिति नैवमित्यादिना स्वार्थहानि परिहृत्य, लिङ्गा-
दित्यादिना श्रुतिपरिच्छिन्नेऽर्थे लिङ्गस्याविनियोजकत्वाद् गर्दभरशनासम्बन्धाप्राप्तेनं प्राप्त-
बाधः प्राप्त्यभावादेव च गर्दभरशनादानेति प्रतिषेधायोगात्परार्थकपनाभाव इति दोषत्रयं
परिहृतम् । तत्र प्राप्तबाधपरिहारभाष्यं तावदृजुत्वाद्व्याख्यातुमाह-यावद्धीति ।
नन्वप्रामाण्यापत्तेर्मा नाम रशनामात्रे मन्त्रविनियोजकश्रुतिः कल्प्यताम्, लिङ्गादेव तु
विनियोगस्सेत्स्यत्यत आह-न चेति । उक्तेऽर्थे भाष्यं योजयति-तदेतदाहेति । श्रुत्यभि-
प्रायो भाष्ये वाक्यशब्दः । स्वार्थहानपरिहारभाष्यमिदानीं व्याचष्टे-यदपीति । गर्हार्थे-
नापिशब्देन क्लिष्टत्वमस्य भाष्यस्य सूचितम् । सामान्येनेत्यभिप्राय इति शाकपार्थिवादि-
वन्मध्यमपदलोपी समासः सामान्यशब्देन निर्विशेषणत्वमुक्तं न शब्देनादाने मन्त्रस्य
सम्बन्धो विधीयते, येन लैङ्गिकप्राप्तिः । सम्भवात्तदर्थशास्त्रानर्थक्यप्रसक्तेः स्वार्थहानं
स्यादित्यर्थः । किमित्येवं व्याख्यायते इत्यपेक्षायाम्, यतः क्रिययैव मन्त्रस्य सम्बन्धो युक्त
इत्यध्याहारेण योज्यम् । तदेव कुत इत्यपेक्षायां कारकाणां साक्षात्परस्परसम्बन्धाभावा-
दित्युक्तम् । तेनादानसम्बन्धनिराकरणभाष्यस्यायमर्थो भवतीत्याह-तस्मादिति । का
तर्हीत्यश्वाभिधानीमिति कारकसम्बन्धप्रतिपादकस्य भाष्यस्य गतिरत आह-किं तर्हीति ।
द्वितीयान्तेन कर्मशक्त्यवक्षिप्तविशिष्टक्रियासम्बन्धविवक्षयेदमुक्तमिति भावः । एवं
व्याख्यायमाने विशिष्टानुवाददोषापत्तेरपरितोषादश्वाभिधान्युद्देशेन मन्त्रविशिष्टादान-
विध्युत्तरकालं परस्परनियमलभ्यकारकसम्बन्धाभिप्रायेणान्यथा व्याचष्टे-अथ वेति ।
नन्वश्वाभिधानीविशिष्टेऽप्यादाने रशनादानत्वाविशेषणं लैङ्गिकमन्त्रप्राप्तिसम्भवात्तदर्थ-
शास्त्रत्वमपरिहृतं स्यात्, अत आह--सर्वथेति । परिसंख्याफलत्वेनायं दोषः परिहार्य
इत्याशयः ।
नन्वश्वाभिधान्यां मन्त्रविशिष्टादानविधौ वर्जनबोधकत्वाभावान्न परिसंख्यातवं स्यादि-
त्याशङ्कते-नन्वेवमिति । परिहरति-फलेनेति । न चैवमौपचारिकत्वापत्तिः, फलत
एव परिसंख्याव्यपदेशादित्याह-सर्वत्र हीति । प्रसङ्गान्नियमव्यपदेशोऽपि फलेनैवेति