मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 248, कुल 804 में से
संदर्भ में पढ़ें१९६ मीमांसादर्शनम् [ सू०
श्यत्वेनांश्वाभिधान्या विशेष्टुमशक्यत्वाल्लिङ्गप्राप्त्यवैलक्षण्यादपरिहार्य्यमानर्थक्यमित्या-
शङ्क्याह—तेनेति । आशनव्यक्तिभेदेऽप्यंश्वाभिधान्या विशेषणायोगादेकेत्युक्तम् ।
ऐक्यरूप्येऽपि प्रकरणसंयोगभेदे पिण्डपितृयज्ञबर्हिर्वन्न धर्मान्वयः स्यात्; प्रकरण-
संयोगाविशेषेऽपि वा भिन्नापूर्वसंयोगे सति आज्यौषधसान्नाय्यवन्न धर्म्मसाङ्कर्य्यं स्यात् ।
न त्वेतदुभयमप्यस्ति । प्रकृतान्यपूर्वसंयोगाविशेषादिति प्रकरणेत्युक्तम् । अतो न प्रमाण-
मिति भाष्यं यद्युच्चारणमात्रेणेत्यनेन पुनरुक्तमाशङ्क्य तस्योपक्रमगतत्वेन सङ्गत्यर्थत्वाव-
धारणादस्य चोपसंहारगतत्वेन प्रयोजनकथनार्थत्वात्परिहरति—प्रयोजनमिति । इह च
प्रमाणशब्दप्रोगान्मन्त्रप्रमेय़ार्थान्तरसिद्धिरपि पूर्वपक्षे सूचिता ।
तथा हि— प्रयाजादिस्मृतिलिङ्गत्वं मन्त्राणां वक्ष्यतेऽत्र यत् ।
देवताकल्पनं यच्च मान्त्रं तस्माद्यजिश्व यः ॥
मन्त्रवर्णश्च यद्धोतुः पूर्वपानं वदिष्यते ।
मे देहीत्यात्मवादित्वान्मन्त्राणां याजमानता ॥
करणानामार्त्विजत्वेऽप्यङ्गसाध्यफलस्य यत् ।
स्वामित्वं क्रियार्थस्य कर्तृत्वं च वक्ष्यते ॥
मन्त्रक्रमानुरोधाच्च ब्राह्मणक्रमबाधनम् ।
छागस्य नियमो यश्च पशावूहश्च मन्त्रगः ॥
तदर्थपरतायां स्यात्प्रपञ्चैवान्यथा भवेत् ।
सर्वसाधारणत्वेन विचारस्य प्रयोजनम् ॥
कर्मकालेऽनुसन्धेयो मन्त्रार्थोऽर्थपरत्वतः ।
इषेत्वादिशु चोच्चार्यं च्छिनद्मीत्यादिपूर्तये ॥
असावित्यादिशब्दस्य स्थाने यद्वादि नाम च ।
सिद्धान्ते मन्त्रलोपश्च प्रकाश्याभाव इष्यते ॥
यथाग्नानं प्रयोगस्तु केवलोऽर्थादिवक्षणे ।
यदि त्वर्थपरत्वेऽपि नैतावत् स्यात्प्रयोजनम् ॥
ततो धर्मप्रमाणत्वं मन्त्राणान्नैव सिद्ध्यति ।
लवनादिस्वरूपस्य प्रकाश्यत्वे हि धर्मता ॥
समीहिताङ्गताभावान्न कथञ्चित्प्रतीयते ।
अपूर्वसाधनत्वेन यद्यप्येतत्प्रकाशयते ॥
विधिप्राप्तानुवादत्वान्न तथापि प्रमाणता ।
अपूर्वसाधनत्वाच्च लवनादौ समीहिते ॥
आत्मनोऽङ्गत्वबोधेन मन्त्रः प्रामाण्यमश्नुते ।
अश्नुतद्रव्ययागादिकल्पनाच्च प्रमाणता ॥
स्फुटैवार्थपरत्वे स्यादिति सर्वमसूसुचन् ॥