मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 233, कुल 804 में से
संदर्भ में पढ़ें३१ ] प्रथमाध्याये द्वितीयपादः १८१
त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद् यज्ञसाधनमस्ति । तदत्राभिधानार्थः
किमभिदध्यात् । उच्चारणार्थे त्ववकल्प्यते । तथा मा मा हिंसीरित्यसत्यामपि
हिंसायां किमभिदध्यात् ॥
अचेतनेऽर्थबन्धनात् ।
अचेतनेऽर्थे खल्वर्थं निबध्नन्ति, ओषधे त्रायस्वनैनमिति । अभिधानेनोपकुर्वन्त
एवंजातीयका ओषधि पशुप्राणाय प्रतिपादयेयुः । न चासावचेतना शक्या
प्रतिपादयितुम् । उच्चारणार्थे तु नैष दोषो भवति । तस्मादुच्चारणार्थाः ।
शृणोत ग्रावाणः (तै० सं १।३।१३) इति चोदाहरणम् ॥
अर्थविप्रतिषेधात् ।
अर्थविप्रतिषेधोऽपि भवति । अदितियोंरदितिरन्तरिक्षमिति (तै०आ० १।१३)
सैव द्यौस्तदेवान्तरिक्षमिति को जातुचिदवधारयेत् । अनवधारयंश्च किमभिधाने-
नोपकुर्यात् । उच्चारणमात्रे तु नैष विरोधो भवति । तस्मादुच्चारणार्था मन्त्राः ।
एको रुद्रो न द्वितीयोऽवतस्थे, असंख्याताः सहस्राणि, ये रुद्रा अधि भूमियमिति
(वा० सं० १६।५४) चोदाहरणम् ।
स्वाध्यायवद्वचनात् ।
स्वाध्यायकाले पूर्णिकाऽवहन्ति करोति । माणवकोऽवहन्तिमन्त्रमधीते ।
नासौ तेन मन्त्रेण तदभिधानमभ्यस्यति अक्षरानुपूय्र्या अवधारण एव यतते ।
येन च नाम प्रयोजनम्, तदभ्यसितव्यम् । अत उच्चारणाभ्यासादुच्चारणेन
प्रयोजनमित्यवगच्छामः ॥
अविज्ञेयात् ।
अपि च केषाञ्चिन्मन्त्राणामशक्य एवार्थो वेदितुम् । यथा अम्यक् सात
इन्द्र ऋष्टिरस्मे (ऋ० सं० २।८) इति । सृण्येव जर्भरी तुर्फरीतू (ऋ० सं०
८।६।२) इति । इन्द्रः ऽसोमस्य काणुका इति च । एते किं प्रत्याययेयुः ।
उच्चारणार्थे तु न दोषः । तस्मादुच्चारणार्था मन्त्रा इति ॥
अनित्यसंयोगान्मन्त्रानर्थक्यम् ॥ १.२.३१ ॥
शा० भा०-अनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थेषु । यथा किं ते
कृण्वन्ति कीकटेषु गावः (ऋ० सं० ३।५३।२१) इति । कीकटा नाम जनपदा ।
नैचाशाखं नाम नगरम् । प्रमगन्दो राजेति । यद्यभिधानार्थाः, प्राक् प्रमगन्दान्नायं
मन्त्रोऽभूतपूर्वं इति गम्यते । तदेतैस्तदर्थंशास्त्रादिभिः कारणैर्मन्त्राणामविवक्षित-
वचनता ॥ ३१ ॥
इति पूर्वपक्षः ।