सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 107, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 107

७ ] प्रथमाध्याये द्वितीयपादः ५५
नन्वेवमिति । अस्ति चेत्प्ररोचयितुमपि शक्तिः, कस्मादन्यदपेक्ष्यत इति ।
सत्यमिति । तस्माद्विद्यमाने तस्मिन्नाविद्यमाने योऽर्थः स गम्यते । कश्चासौ ।
स्तुतिः प्रयोजनं तयोः । न तस्यैव पूर्वस्यापोत्यर्थः । स्तुतिविषयोपकल्पनाच्च
विधेरपि स्तुतिप्रयोजनव्यपदेशः । न हि निर्विषया स्तुतिरुपपद्यते । अर्थवादा-
भावे त्वगत्या केवलोऽपि गौरवमङ्गीकरिष्यति ।
ननु सत्स्वपीति । पूर्ववदेव व्याख्येयम् । अतोऽस्माद्विधेरिति१ । इदानीं षष्ठी-
वाक्यशेषसंबन्धादित एवास्य स्तुतिमवगच्छामो न स्वत इत्यर्थः । ननु निर-
पेक्षादपीति । यदि क्वचिदनितिकर्तव्यताकस्य विधेः प्रवर्तनशक्तिः कस्मादन्यद-
पेक्षते, तेन सत्स्वप्यनादरः स्यात् । आचार्यस्तु सोपहासमाह-यत्रासौ केवलः
प्रयुज्यमानो निरपेक्षः । तत्र भवतु न कश्चिद्विरोधः । इह त न तत्संभवः साका-
ङ्क्षैः पदान्तरैराक्षिप्तत्वात् । वाक्यं ह्येकमेकस्यैव संबन्धस्य विधायकम् । तन्न
यदि द्वौ विध्युद्देश एव कुर्यात्तथा सति भिद्येत । विध्युद्देशोत्थापितानामेवैष हि
गुणो भवतीति प्ररोचनां दर्शयति । तस्माद्विधिनैकवाक्यत्वात्तदनुग्रहेणार्थवन्तोऽ-
र्थवादा इति ॥ ७ ॥
न्या० सु० ] पूर्वपक्षसिद्धान्तयोर्भिन्नविषयत्वापत्तेरपूर्वोदाहरणानुपपत्तिमाशङ्कते-पूर्व-
पक्षेति । नातिप्रयत्निनं परिहारमाह-केचिदिति । भाष्यकारस्यानिपुणत्वापत्तेरिमं परिहारं
दूषयति—यद्यपीति । स्वमतेन परिहरति—तदभिधीयत इति । अत्र भाष्यकारेण वायुर्वै-
क्षेपिष्ठा देवतेति यद्यपि क्रिया नावगम्यते, क्रियासम्बद्धं वा, तथापि विध्युद्देशेनैकवाक्य-
त्वात्प्रमाणमित्युक्त्वा, कथमेकवाक्यभावः ? इति पृष्टे पदानां साकाङ्क्षत्वाद्दिधेः स्तुतेश्चैक-
वाक्यत्वमित्यभिधानादेकवाक्यत्वं प्रामाण्यकारणम्२, स्तुत्यर्थत्वं त्वेकवाक्यत्वकारणमुक्त-
मिति प्रतिभाति । तच्चायुक्तम्, विध्येकवाक्यत्वं विना लाक्षणिकस्तुत्यर्थत्वायोगादितरे-
तराश्रयापत्तेरित्याशङ्क्य व्याचष्टे—तत्रेति । स्तुत्यर्थत्वोपपादनद्वारेणैकवाक्यत्वस्यो-
पयोगरूपप्रामाण्यकारणत्वमभिप्रेतम्, न साक्षात् । विधिस्तुतिपदसाकाङ्क्षत्वं तु समभि-
व्याहारावगतैकवाक्यत्वनिर्वाहायोक्तमित्यदोषः । तदेतद्भाष्यमाक्षिपति—एतावत्स्विति ।
सामान्यतः पुरुषार्थानुबन्धित्वासिद्धौ तदधीनलाक्षणिकस्तुत्यादिद्वारविशेषनिरूपणाशक्ते-
स्तदेवादौ साध्यमिति प्रथमशब्देनोक्तम् । स्वारसिकैकवाक्यत्वावगमे३ श्रौतार्थत्यागस्य
१. यतो वाक्यशेषोऽतो विधेः—विधिसंबन्धिनोऽस्माद्वाक्यशेषाद्विधेयस्य स्तुतिमव-
गच्छाम इत्यर्थः । नत्वनेन भाष्येण विधिरेव स्तुतिप्रतिपादक इत्युपसंह्रियेत । पूर्व-
ग्रन्थविरोधापत्तेरिति ।
२. धर्मप्रमाजनकस्वरूपप्रामाण्यकारणं तदाश्रितम्, ततो धर्मप्रमानुत्पत्तेः ।
३. ननु समभिव्याहारलक्षणैकवाक्यताप्रकृते स्वारसिकी सम्भवतीति चेत् ? विभज्य-
मानसाकाङ्क्षत्वे सत्येकार्थप्रतिपादकत्वं स्वारसिकमेकवाक्यत्वं विवक्षितम् । प्रकृते
त्वर्थवादानां निराकाङ्क्षत्वेन तदभावात् ।