मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 106, कुल 804 में से
संदर्भ में पढ़ें५४ मीमांसादर्शनम् [ सू०
यत्तूदवसानीयवदिति तत्रापि क्त्वावशेन विधिप्रतिषेधावनपेक्ष्य क्रियामात्रा-
विधित्वमाश्रितमेवेत्यदृष्टान्तता । यदि च विध्यविवक्षा स्यात्ततः प्रत्यासत्ते-
र्धात्वर्थ एव साध्यांशे निपतेदिति निष्फलत्वं स्यात् । तस्मात्सूत्रातिनाशेनैव
विधिनेकवाक्यत्वम् । तथा च भाष्यकारः । साविधिकमेव भूतिकाम इत्येवमन्तो
विध्युद्देश इत्याह । अन्यथा धात्वर्थ इत्येवावक्ष्यत् । तन्नास्य क्रियामात्रतया
विध्युद्देशत्वं शक्यते वक्तुम् । तस्मात्प्रत्यय एव विध्यभिधायित्वाद्विध्युद्देशः ।
विध्यर्थेन त्वेकवाक्यत्वासंभवात्सूत्रातिरेकेणोद्देशग्रहणम् । भूतिकाम इत्येवमन्त
इति च फलादिसंगत्युत्तरकालं स्तुत्यवसरप्रदर्शनार्थम् ।
नन्वेवं सति वर्तमानोपदेशेष्वनाकाङ्क्षणादर्थवादा न संबध्येरन् । एवमे-
वैतत्, तथाऽपि तु प्रमाणान्तरप्राप्त्यभावात्क्वचित्प्रयोगवचनेन क्वचित्पञ्चम-
लकारेण । अथवा श्रुतवर्तमानस्यान्यथानुपपत्त्या कल्पिते विधित्वेऽर्थवादसंगतिः ।
यत्रापि केवलार्थवाददर्शनादेव विधित्वं तत्राप्यन्यथानुपपत्तिमात्रं शरणम् ।
संभवन्त्यां तु गतौ, नातिगौरवं युक्तमिति ।
यस्त्वस्मिन्पक्षे वाक्यभेदः संबन्धद्वयाश्रयणादिति, स आलभेन प्रशस्तत्वा-
दित्येकप्रसरोपपत्तेः परिहृतः । विधीयमानस्यैव हि स्तुत्याकाङ्क्षेत्यवैरूप्यादुप-
पन्नं तन्त्रत्वम् । यदि चैवंविधैः संबन्धभेदैर्वाक्यं भिद्येत ततः साध्यसाधनेति-
कर्तव्यतासंबंधैरपि भिद्येत । तस्मान्नायमभिसंबन्धो^१ विवक्षित इत्यादिभाष्य-
मेवं नेतव्यम् । न पूर्वत्रैव साङ्गविधिपर्यवसानं विवक्षितम् । विधित्वादिवार-
प्ररोचनाकल्पनायामतिगौरवनििमत्ताद्वाक्यभेदात् । किमर्था स्तुतिरिति । पूर्वे-
णैव प्ररोचनाऽपि सिद्धेत्यभिमानात् । कथं रोचेतेति—विध्यनुग्रहकथनम् । ननु
प्रागिति—पूर्वाभिप्रायविवरणम् । न हीति । स्तुत्यभावे तस्य शक्तिद्वयमग-
त्याऽऽश्रीयते न संभवन्त्यामपीत्येतत्, न, तदा भूतिकामस्य विधिः समाप्यत
इत्याह—यथा घट इति । गतार्थम् । विधिशब्देन तदा प्ररोचनेति । विवृतं
कार्यनानात्वं विधिस्तुत्योः ।
१. नायमभिसंबन्धो विवक्षित इत्यादि, भिद्येतेत्यन्तभाष्यस्यायमर्थः—भूतिकाम आलभते
कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादकस्य विध्युद्देशस्य विधिस्तुतिसंबन्धरूपो
विशिष्टोऽर्थो दर्शितः, नायं विध्युद्देशमात्रेण विवक्षितः किं तु सार्थवादकेनेति ।
तर्हीत्ययं भिद्येतेत्यनेनान्वेति । आलभेतेति मध्यप्रतीकेन विध्युद्देशोपलक्षणम् ।
यतस्ततो भूतिरित्यर्थवादस्योपलक्षणम् । तथा च विशेष्यविशेषणरूपभिन्नाविमा-
वर्थौ विध्युद्देशार्थवादाभ्यां प्रतिपाद्यमानौ यद्येकेन विध्युद्देशेन प्रतिपिपादयिषितौ
तर्हि गौरवलक्षणो वाक्यभेद इति ।